पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
240
[ अरण्यकाण्डः}
सीतापहरणोपदेशः



यदि तस्यामभिप्रायः भार्यार्थे तव जायते [१]

'शीघ्रमुद्धियतां पादः जयार्थमिह दक्षिणः ॥ २३ ॥

क्रियतां निर्विशङ्कन वचनं मम रावण ! ॥ २४ ।।

[२] विज्ञायैषामशक्ति च क्रियतां च, महाबल !

सीता [३] तवानवद्याङ्गी [४] भार्यात्वे, राक्षसेश्वर ! ॥ २५ ॥

 "विज्ञायैषामशक्तिं च क्रियतां च महाबल | सीता तवा- नवद्याकी भार्यात्व राक्षसेश्वर ।" इति पातः । एषां - रामादीनां अशक्ति, चकारात् तव शक्तिं च विज्ञाय सीता तव भार्यात्वे क्रियताम् । राज्याद्यभावात् रामस्य अशक्तिरिति मूढायाः तात्पर्यम् [५]

निशम्य रामेण शरैरजिह्मगैः
हतान् जनस्थानगतान् निशाचरान् ।
खरं च ' बुद्धा निहतं च दूषणं
[६]त्वमद्य कृत्यं प्रतिपत्तुमर्हसि ॥ २६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुस्त्रिंशः सर्गः


 उपसंहरति — निशम्य रामेणेति । अद्य कृत्यमिति । एतत्कालो- चितं यत् कर्तुं योग्यं तत् प्रतिपत्तुं – निश्चित्य ज्ञात्वा प्रवर्तितु-मर्हसीत्यर्थः | चोर (२६) मानः सर्गः || २६ ||

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे चतुस्त्रिंशः सर्ग:



  1. एतदनन्तरं, “कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ! वधात तस्य नृशंसस्य राम- स्याश्रमवासिनः ॥ त शरैः निशितैः हत्वा लक्ष्मणं च महारथम्। इतनाथां सुखं सीतां • यथावदु-पभोक्ष्यसि ॥ रोचते यदि ते वाक्यं ममैतद्वाक्षसेश्वर !” इत्यधिकं- ड.ज.झ
  2. विज्ञायेहात्म-शक्ति चहियतामबला बलात्-ङ,
  3. सर्वा--ङ.
  4. भार्याये-ङ
  5. अथवा -- तयोः पौरुषं साक्षादृष्टवती शूर्पणखा वीर्यात् सीता रावणेन नापहर्तु शक्येति जानन्ती -रामलक्ष्मणयोदौर्बल्यं ज्ञात्वा तदुपयोगेन सीतामपहरेति वदति। रावणोऽपि तथैव सीतायाश्चापल्यं, रामस्य तावचनानुपेक्षकत्वं- इत्यादिकं छिद्रं विज्ञाय उपायेन सीतां जहार । तदेतदुच्यते- एषामशक्तिमिति । ‘विज्ञायेहात्मशक्ति' इति - गो. पाठः ॥ ॥ २५ ॥
  6. त्वमत्र-ङ,