पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
282
[अरण्यकाण्ड:
सौवर्णमुगदर्शनम्

आरुह्यतामयं शीघ्रं [१]रथो रत्नविभूषितः ।
मया सह [२] तथा युक्तः पिशाचवदनैः खरैः ॥ ७ ॥
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।
तां शून्ये प्रसभं सीतां आनयिष्यामि मैथिलीम् [३]॥ ८ ॥
ततो रावणमारीचौ [४] विमानमिव तं रथम् ।
[५]आरुह्य ययतुः शीघ्रं तस्मात् आश्रममण्डलात् ॥ ९ ॥

 तस्मादाश्रममण्डलात् इति । मारीचाश्रममण्डलादित्यर्थः ॥ ९ ॥

तथैव तत्र पश्यन्तौ पित्तनानि वनानि च ।
गिरींश्च सरितः सर्वाः राष्ट्राणि [६][७] नगराणि च ॥ १० ॥
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ।
ददर्श सहमारीचः रावणो राक्षसाधिपः ॥ ११ ॥

 पत्तननगरयोः अराजधानीराजधानीत्वेन भेदः ॥ १०-११ ॥


  1. खगो-ज.
  2. रथो-ज.
  3. एतदनन्तरं - -'ततस्तथेत्युवाचैनं रावणं ताटकासुतः इत्यधिकं-ज.
  4. विमानमिव स्थितं तं रथं, विमानं आकाशगमिति वा ।
  5. आरुयायवतुः-ज.
  6. नगरपत्तनादि-लक्षणमुक्तं वास्तुश/खे–“ग्रामश्च नगरं चैव पत्तनं खटं पुरम् । खेटकं कुसुमे चैव शिबिरं राजवासिकम् । सेनामुखमिति त्वेवं दशधा कीर्तितं बुवैः । च सभृत्यानां वासो ग्राम कुटुम्बि मे दैरेको न त्रिंशद्भिश्च विप्राणां इतीरितः । स एव विप्रैरा कीर्णस्त्वग्रहार इति स्मृतः । समन्वितः । अनेकनारीसम्बद्धं नानाशिल्पिजनैरृतम् । ऋयविक्रयकैः कीर्णं सर्वदेवैः समन्वितम् । नगरं त्विति विख्यातं पत्तनं शृणु सांप्रतम् । द्वीपान्तरागतद्रव्यकयविक्रय कैर्युतम् । पत्तनं त्वब्धितीरे स्यात् तयोमिंत्रं तु खर्वटम् । ऋयविक्रयकैर्युक्तं नानाजातिसमन्वितम् । तन्तुवायसमायुक्तं तत्पुरं त्विति कथ्यते मतैरधिष्ठितं यत्तत् खेटकं परिकीर्तितम् । तेषामेकान्तरेष्वेव वासः कुसुममुच्यते इत्यादिना - गो.
  7. विविधानि च-ङ.