पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
294
[ अरण्यकाण्ड:
लक्ष्मणशङ्का

एतस्य मृगरत्नस्य पराये काञ्चनत्वचि ।
|| उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३४ ॥

 यदेवमतः प्रकृते अर्थधिया प्रवृत्तिर्भविष्यतीत्याह – एतस्ये. त्यादि ॥ ३४ ॥

[१] कादली न प्रियकी न प्रवेणी न चाविकी ।
भवेदेतस्य सदृशी [२]स्पर्शनेनेति मे मतिः ॥ ३५ ॥

 एतन्मृगत्वचः परार्ध्यत्वमेव दर्शयति--न कादलीत्यादि । मृदूच्चकबुरनीलरोमा मृगविशेषः कदली - 1720 11 17 । कदल्याः त्वक् कादली । प्रियकी LOU LOT 500 | प्रियकी रोमभिर्युक्ता मृदूच्चमसृणैघनैः ।" प्रदेणी अजविशेषः । आविकी— ऊर्णायु:-अविः । तस्याः त्वक आविकी - प्रवेणिशब्दतश्च तत्त्वक् । एतस्य मृगस्य त्वचः कादली न सहशी, तथा प्रियकी, प्रवेणी, आविकी चन सदृशीति मे मतिरिति योजना ॥ ३५ ॥

एप चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ।। ३६ ॥

 यश्च दिव्यो नभश्चर इति । खबर: अप्राकृतो मृगः इत्यर्थः । को तो मृगौ दिव्यौ कथितौ इत्यतः--तारामृगमहमृिगा विति तारारूपो मृगशिराः, महीमृगस्त्वसौ ।। ३६ ।।

यदि वाऽयं तथा यन्मां [३]भवेद्वदसि, लक्ष्मण !
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३७ ।।


  1. कदली तु बिले शेते मृदुषक्ष्मोच्चकर्बुरैः। नीला ग्रेले मभिर्युक्तामा विश
    प्रियकी लोमभिर्युक्ता मृदुश्व मसणैर्धनैः-गो.
  2. स्पर्शेऽनेनेति-ज.
  3. भवान् वदति - ङ.