एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४ सगै: ]
301
त्रित्रमाणश्च सोडकोशत् हा सीते लक्ष्मणेति च
तद्वचनमिति। रावणवचनमित्यर्थः । दध्यौ-ध्यानं कृतवान् । केन-केनोपायेन मया कृतेन सीता लक्ष्मणं इह प्रस्थापयेत्, तां च कथं शून्ये रावणो हरेत् . इति दध्यौ इत्यन्वयः ॥ १८ ॥
मर्मणि — सहजरूप्राणस्थाने इत्यर्थः । तत्र हेतु: - रेणानुपमेन होति । रक्षस्संबन्धि-राक्षसम् ॥ २० ॥
[ततो विचित्रकेयूरः सर्वाभरणभूषितः ।
हेममाली महादंष्ट्रः राक्षसोऽभूच्छराहतः ।।]
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ॥ २१ ॥
- ↑ एतद६द्वयस्थाने–' म्रियमाणस्तु मारीच: दध्यौ केन तु लक्ष्मणं'-झ.
- ↑ सुतां मतिं- ङ.
- ↑ यद्यपि रावणेनैव पूर्वमन्त्रोपाय: उपदिष्ट:- 'आक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् (४० - २०) इति । परन्तु तस्यैव प्रकार चिन्तन मिदम् । अथवा --- केन तु लक्ष्मणं सीता इह प्रस्थापयेत्, तां च शून्ये रावणो हरेत् इति दध्यौ । ततः -- रावणवचनं तद्वचनं स्मृत्वा सः तत् प्राप्तकाल-माशाय राघवस्य सदृशं स्वनं चकार इत्यन्वयः । पाठान्तरे तु न कश्चन केश: ।
- ↑ मास्थित:-ज.
- ↑ कायं- ङ.