एतत् पृष्ठम् अपरिष्कृतम् अस्ति
302
[अरण्यकाण्ड:
मामा मृगवषः
लक्ष्मणस्य वचः स्मरन्नित्येतदेव प्रकाशयति - मारीचस्येत्यादि ।
हा सीते ! लक्ष्मणेत्येवं आक्रुश्य च महास्वनम् ।
ममार राक्षसः सोऽयं [३] श्रुत्वा सीता कथं भवेत ? ॥२४॥
सीता कथं भवेत् – महलं ज्ञात्वा धीरा भवेत् ? उत अन्यथा ज्ञात्वा दुरवस्थां गच्छेद्वेत्यर्थः ॥ २४ ॥
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ?
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ २५ ॥
तत्र रामं भयं तीव्रं आविवेश विषादजम् ||
हृष्टतनूरुद्द इति । सीतानिमित्तभयविकारादिति शेषः । तदेव दर्शयति- - तत्र रामं भयमित्यादि ॥ २५ ॥
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत् स्वरम् ॥ २६ ॥
- ↑ चेष्टमानं-ज.
- ↑ मायैषेत्यत्र इतिकरणं बोध्यम्-गो. अथवा 'मारीचस्यैव मायैषा' इति स्वगतं वचनं वा ।
- ↑ सीता कथं भवेत् - किमधैर्यं नाटयित्वा लक्ष्मणं प्रेषयेव, उत धीरा
भवेदित्यर्थ:-ति. वस्तुतस्तु सीतालक्ष्मणयोः स्वविरहासहिष्णुत्वस्य 'न च सीता
त्वया हीना न चाहमपि राघव मुहूर्तमपि जीवाव: जलान्मत्स्याविवोद्धृतौ ' इत्यादावव-
गतत्वेन, एवं मदीयार्त स्वरश्रवणमात्रेण तयोजींवितविपत्तिर्न भवेद्वेत्येवातिशङ्कात्र
रामस्य स्यात् । अत एव ' हृष्टननूरुहः' इत्युच्यते । तयोजीवितविपत्तिस्मरणमात्रेण
रामः अतीव व्यथां प्रान हृष्टत्वं नाम तनूरुहाणां पुलकितत्वम् । समनन्तर लोके 'तंत्र
रामं भयं तीत्रमा विवेश' इत्युक्त अवधेयमत्र ।