पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६ सर्गः )
313
पतस्याः वृतान्तान् कामुको वर्णयंश्च ताम्

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् || ११ ।।
स तां पद्मपलाशाक्ष पीतकौशेयवासिनीम् ।
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ।। १२ ।।

 पीतकौशेयवासिनीं इति । णिन्यन्तत्वात् ङीप् ।। १२ ।।

 [१]. स मन्मथशगविटः [२] ब्रह्मघोपमुदीरयन् ।
अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ।। १३ ।।

 ब्रह्मघोषं-वेदघोषं ब्राह्मणत्वप्रत्यभिज्ञानार्थं उदीरयन् ॥ १३ ॥

तामुत्तमां [३] स्त्रियं लोके [४] पद्महीनामिव श्रियम् ।
विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ १४ ॥
[५] एतावुपचितौ वृत्तौ संहतौ [६] संप्रगल्भितौ ।
पीनोन्नतमुखौ कान्तौ स्निग्धौ ताल फलोपमौ ।। १५ ।।
मणिप्रवेकाभरणौ रुचिरौ तौ पयोधरौ ।

 प्रशशंस हेत्यस्यैव प्रपञ्चः - एतावित्यादि । संप्रगल्भितौ- संजातप्रागल्भ्यौ । मणिप्रवेकः- मणिश्रेष्ठः ॥ १५ ॥

चारुस्मिते! चारुदति ! चारुनेत्रे ! विलासिनि ! ॥ १६ ॥
मनो हरसि मे, [७]कान्ते ! नदी कूलमिवाम्भसा |

 नदी कर्त्री, कूलं- स्वकूलम् ॥ १६ ॥


  1. दृड्डा काम शराविद्ध:- ज
  2. ब्रह्मघोषं 'उपनिषदमावर्तयेत् ' इत्युक्त परिव्राजकोचितवेदघोषं गो.
  3. त्रिलोकानां - ज.
  4. पद्मालयस्वपया करत्वादीनां लक्ष्मीचिडत्वात् तत् परित्यज्य आगतां श्रियमिव ॥
  5. एतदारभ्यार्थपत्रकं ङ. ज. पुस्तकयो: 'करू करिकरोपमौ'- इत्येतदनन्तरं दृश्यते।
  6. संप्रवगिती-ङ
  7. रामे- ज.