पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
314
अरण्यकाण्ड:
रावणप्रवेश:

[१] का स्वं ? काञ्चनवर्णाभे ! पतिकौशेयवासिनि ! ॥ १७ ॥
कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ।
ही: कीर्तिः श्रीः शुभा लक्ष्मीः अप्सरा वा, [२]शुभानने ! ॥
[३]भूतिर्वा त्वं, वरारोहे ! रतिर्वा [४] खैरचारिणी ।

 ह्री:- गौरी । श्रीः-ऐश्वर्यप्रधाना भगवच्छक्तिः । लक्ष्मी:- सौभाग्यप्रधाना । भूतिः-अणिमादिसिद्धिः परमेश्वरशक्तिः । रतिः-कामपत्नी ॥ १८ ॥

समाः शिखरिणः [५] स्निग्धाः पाण्डुराः दशनास्तव ॥ १९ ॥
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ।
विशालं जघनं पीनं ऊरू करिकरोपमौ ॥ २० ॥
करान्तमितमध्याऽसि सुकेशी संहतस्तनी ।

 समाः–समसंस्थानाः शिखरिणः शिखरं - अग्रम् | कुन्दकुट्मलवत् प्रशस्ताग्रा इति यावत् । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रप्रमाणेन मितं मध्यं यस्याः सा तथा ॥ २० ॥

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ॥ २१ ॥
नैवरूपा मया नारी दृष्टपूर्वा महीतले ।
 [६] रूपमग्रथं च लोकेषु सौकुमार्य वयश्च ते ।। २२ ।।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।

 उन्मादयन्ति - विकृतं कुर्वन्तीति यावत् ॥ २२ ॥


  1. रौप्यकाञ्चन-ज.
  2. वरानने- ङ.
  3. भूमि- ङ.
  4. स्वैरचारिणीति इतरत्राप्यन्वेति ॥
  5. स्निग्धा:- अविरला: - अच्छा ति यावत् ।
  6. रूपमप्रतिमं लोके-सु