पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३ सर्ग: ]]
315
उत्तमा श्वं वरारोहे ! कुतोऽसि विजने बने ?.

सा प्रतिक्राम, भद्रं ते, न त्वं वस्तुमिहार्हसि ॥ २३ ॥
राक्षसानामयं वासः घोराणां कामरूपिणाम् ।

 सा त्वं प्रतिक्राम-निर्याहि ॥ २३ ॥

प्रासादाग्राणि रम्याणि नगरोपवनानि च ॥ २४ ॥
संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ।
[१] वरं माल्यं वरं [२] भोज्यं वरं वस्त्रं च, शोभने ! ॥ २५ ॥
भर्तारं च वरं मन्ये त्वद्युक्तं, असितेक्षणे !
का त्वं भवसि रुद्राणां मरुतां वा ? [३] वरानने ! ।। २६ ।।
वसूनां वा, वरारोहे ! देवता प्रतिभासि मे ।
[४] नेहागच्छन्ति गन्धर्वाः न देवाः न च किन्नराः ॥ २७ ॥
राक्षसानामयं वासः कथं नु त्वमिहागता ?
इह शाखामृगाः सिंहाः द्वीपिव्याघ्रमृगास्तथा ॥ २८ ॥
ऋक्षाः तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ?

 द्वीपिन्याघ्रौ सबिन्दुनिर्भिन्दू शार्दूलौ । iii, - 'तरक्षुस्तु मृगादनः '& ॥ २८ ॥

मदान्वितानां घोराणां [५] कुञ्जराणां तरखिनाम् ॥ २९ ॥
कथमेका महारण्ये न विभेषि १ वरानने !
कासि ? कस्य ? कुतश्चित्त्वं ? किंनिमित्तं च दण्डकान् ||


  1. बरं – श्रेष्ठं मास्यादि त्वद्युक्तं तव योग्यं मन्ये, न तु यादृशतादृशं, यद्वा
    माझ्यादिकं स्वयुक्तं स्वत्सम्बद्धं सत् वरं- प्रशस्तं भवतीति मन्ये-गो.
  2. गन्धं-ज.
  3. शुचिस्मिते-ज,
  4. नेह गच्छन्ति-ज.
  5. एका त्वं कथं न बिभेषि, सम्बन्धसामान्य विवक्षया षष्ठी- रा.कुलराणां महारण्ये इति माऽन्वयः ।