पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
316
[भरण्यकाण्डः
रावणप्रवेश:

एका चरसि, कल्याणि! घोरान् राक्षससेवितान् ?
इति प्रशस्ता वैदेही रावणेन [१] दुरात्मना ॥ ३१ ॥
[२]द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ।
सर्वैर तिथिसत्कारैः रैः पूजयामास मैथिली ॥ ३२ ॥

 प्रशस्ता-कृतप्रशंसा ; प्रशंसितेति यावत् ॥ ३२ ॥

[३] उपानीयासनं पूर्व पाद्येनामिनिमन्त्र्य च ।
अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३३ ॥


  1. महात्मना-ज.
  2. द्विजातिवेषेण आगतं तं रावणं-रा. ति.हितं-- सहितम्-गो. अथवा आगतं रावण द्विजातिवेषेण हितं- स्वहितपरं दृष्ट्वा; ब्राह्मणा हि सर्वभूतहितैषिणः अतोऽयं 'कथं न बिभेषि' इति पृच्छनीति मन्यमाना | ननु 'मनो हरसि मे कान्ने' 'चित्त नुन्मादयन्ति मे इत्यादिवाक्यं वदन्तं रावणं कथं सीता तन्मनोदोषं न शङ्कितवती ? कथं वा पूजयामासेति चेत् – यथावस्थितसौन्दर्यवर्णन रूपमिदं सबै स्यात्' इति भावनया रावणस्य हृदयदोषं नाभ्यू हृतवती सीता । अथवा 'आसीनां पर्णशालायां बाष्पशोकामिपीडिताम्' (११) इति आदौ कथनात् विक्षिप्तचित्तया नावहितं स्यात् रावणवाक्यम् | समीपमागतं द्विजातिवेषं च दृष्ट्वा तावतैव पूजितवतीति गम्यते । गोविन्दराजेन तु (² (अनन्तर लोकव्याख्यायां) मैथिली जनककुलजाततया तब्यवहारपरिपाटी विशात कपटवेषाऽपि संन्यासिवेषधारणमात्रेण उद्वेष्टुं-द्वेषं कर्तुं अशक्यं तं न्यमन्त्रयत् । 'काषायदण्डमात्रेण यतिः पूज्यो न संशयः' इति वचनादिति भाव:- इत्युक्तम् । अथवा जानन्त्यपि जानकी एतेन विरोधे अपाय: स्यादिति बुद्धया स्वयं अजानन्तीव नटयित्वा तं संपूज्य सामवाचा उपायेन च प्रेषितुमना:, यावद्रामाद्या गमनं कालं कथंचित् क्षपयितुमना वा एवं पूजां चकारेति स्यात् । पतत्वक्षे समनन्तर श्लोकानां स्वारस्यं च स्पष्टम्। ननु सीता यदि तं कपटिनं जानाति, तदा 'ब्राह्मणश्च तिथिश्चैष अनुक्तो हि शपेत माम् ' (२) इत्यनन्तरसर्गे कथं सीतोक्तिरिति चेत् - सीता पुरतः स्थित रावणं यद्यपि न जानाति; किन्तु तस्य हृदयदोषं परं जानाति । अतश्च तस्य दुर्हृदयस्वेऽपि,
    ब्राह्मणत्वात् मां शपेद्रा इति चिन्तथैव तथोक्तिः युज्यत एव । एवज सीता तं रावणमजा-
    नन्ती, ब्राह्मण एत्र कश्चित् बुद्धिदोषादेवं वदतीति मनुते स्मेति भाति ।अधिकमन्यत्र ||
  3. उपनीय-ज.