पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६ सर्ग:
317
नियाग्रस्मात् प्रदेशात् दाक् इत्युक्त्ता तेन पापिना

 पाद्येनामिनिमन्त्र्येति । सत्कृत्येत्यर्थः । तदा - पाद्यप्रदानानन्तर- काले सौम्यदर्शनं तं सिद्धमित्येवाब्रवीत् - सर्व पक्कमित्येवाब्रवीत् ॥ ३३ ॥

द्विजातिवेषेण समीक्ष्य मैथिली
समागतं पात्रकुसुम्भधारिणम् ।
अशक्यं उद्देष्टुं [१] उपायदर्शनात्
न्यमन्त्रयत् ब्राह्मणवत्त [२] तथागतम् ॥ ३४ ॥

 पात्रं - यतिपात्रम् | कुसुम्भं कुपुम्भवस्त्रं च घरतीति तथा । ‘‘अशक्यं उद्देष्टुं उपायदर्शनात् न्यमन्त्रयत् ब्राह्मणवत्तथागतं” इति पाङ्कः । उपायानां - ब्राह्मणत्व प्रतिपत्त्यै रावणेन रचितानां काषायदण्डब्रह्मघोषा- दीनां दर्शनात् उद्देष्टुं-द्वेषं कर्तुं, उच्छव्दात् उपेक्षितुमशक्यं अनुचितं तथागतं-तथावेषं प्राप्तवन्तं ब्राह्मणवदेव न्यमन्त्रयत्-सीता सत्कृतवती ॥

इयं बृमी, ब्राह्मण ! काममास्यतां
इदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं
[३] त्वदर्थं अव्यग्रमिहोपभुज्यताम् ॥ ३५ ॥

 तस्यैव प्रकारः - इयं बृसत्यादि । सिद्धं वनजातमिति । पक्क वन्यपदार्थजातमित्यर्थः ॥ ३५ ॥

निमन्त्रयमाणः प्रतिपूर्णभाषिणीं
नरेन्द्रपत्नी प्रसमीक्ष्य मैथिलीम् ।
प्रसह्य तस्या हरणे [४] [५] धृतं मनः
[६]समर्पयामास वधाय रावणः ॥ ३६ ॥


  1. अपायद र्शन- ङ.
  2. दाऽङ्गना-ड'
  3. त्वदर्थ सिद्धं-ति. गो.
  4. धृतं वीरं यथा तथा, मनोविशेषणं वा-गो.सीताया दर्शनात् पूर्वमेव तस्याः हरणे निश्चितं मनः इदानीं सीताया दर्शनेन यथा-कश्चित् हरणे सुदृढं निश्चितमभूदिति वा ॥
  5. दृढं-ज.
  6. समार्पयत्स्वात्मवथाय- कु.