पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अरण्य काण्ड:
रावणप्रलोभनम्

 प्रसोत्यादि । रावण: बघाय-स्वनाशसंपादनाय तस्याः प्रसह्य हरणे मनः घृतं—निश्चितं समर्पयामास- सम्यक् कृतवान् इत्यर्थः ॥

ततः सुवेषं मृगयागतं पतिं
[१] प्रतीक्षमाणा सहलक्ष्मणं तदा ।
[२] विवीक्षमाणा हरितं ददर्श तत्
महद्वनं नैव तु रामलक्ष्मणौ ॥ ३७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षट्चत्वारिंशः सर्गः

 सुवेषं - शोभनाकारम् । मृगयां प्रति गतः मृगयागतः । हरितं - श्यामम् । छल(३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृत कतकटीकायां अरण्यकाण्डे षट्चत्वारिंशः सर्गः

सप्तचत्वारिंशः सर्गः

[ रावणप्रलोभनम् ]

रावणेन तु वैदेही तथा पृष्टा [३] जिहीर्षता ।
[४] परिव्राजक [५]लिङ्गेन शशंसात्मान [६] मात्मना ॥ १ ॥

 अथ सीता सत्कृत्य, का ? कस्य ? इत्यादिप्रश्नस्य उत्तरमुक्ता, तस्मिंश्च पृष्ट, तेन च स्वतत्त्वे स्वागमनप्रयोजने चाभिहिते, सीता रोषात् पारुष्यमकरोत् । रावणेनेत्यादि । आत्मानं जिहीर्षता रावणेन तथा पृष्टा- पूर्वसर्गोक्तरीत्या पृष्टा वैदेही आत्मना स्वयमेव आत्मानं शशंस ॥ १॥


  1. प्रतीक्षमाणा -- प्रतिवालयन्ती। विवीक्षमाणा -तां दिशं विविधं पश्यन्ती-गो.
  2. निरीक्षमाणा-जं.
  3. जिहीर्षुणा ज.
  4. परिबाजकलिङ्गेन रावणेनेत्यन्वयः ।
  5. रूपेण-ज.
  6. मङ्गना-ड.