पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७ सर्गः]
319
विधाय स्वागतं तस्मै कथां स्वां प्राइ जानकी

[१] ब्राह्मणश्चातिथिचैषः अनुक्तो हि शपेत माम् 1
इति ध्यात्वा मुहूर्त तु सीता वचनमब्रवीत् ॥ २ ॥

 ननु सत्कारमात्रं कर्तव्यं, किं प्रतिवचनेन ? इत्यत्राह - ब्राह्मण- येत्यादि । एष अनुक्तः इति छान्दसः असन्धिः । अनुक्तप्रतिवचन इत्यर्थः ॥ २ ॥

दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नाऽसि, भद्रं ते रामभार्या, द्विजोत्तम ! ॥ ३ ॥
उपित्वा द्वादशसमा: इक्ष्वाकूणां निवेशने ।
[२] भुजाना मानुषान् भोगान् सर्वकाम समृद्धिनि ॥ ४ ॥

 सर्वकामसमृद्धिनि निवेशने इत्यन्वयः ॥ ४ ॥

ततः त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः ।
अभिषेचयितुं रामं ' समेतो राजमन्त्रिभिः ॥ ५ ॥

 राज्यकर्तारो मन्त्रिणः - राजमन्त्रिणः, तैः ॥ ५ ॥

तस्मिन् संश्रियमाणे तु ' राघवस्याभिषेचने ।
कैकेयी नाम भर्तारं [३] ' आर्या सा याचते वरम् ।। ६ ।।

 संभ्रियमाणे–संभ्रियमाणसंभारे । भर्तारं-दशरथं आर्या--मम पूज्या वरं याचते इति द्विकर्मकत्वात् ॥ ६ ॥

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुः भरतस्याभिषेचनम् ।। ७ ।।



रामस्य महिषी प्रिया ज. 2 समृद्धिनी-ग. 3 सर्वेषां मतमास्थितः -ङ. "मध्यमा महिषी विभो:- ङ. 5 अनार्या - ङ.

  1. यतिवेषं प्रत्यात्मवंश सा किमर्थमुक्तवतीत्यत्राह - ब्राह्मणश्चेति - गो. अत्र
    वक्तव्यं गतसगीय ३२ श्लोकटिप्पण्यां द्रष्टव्यम् ।
  2. अत्र अमानुवान् भोगान् भुजाना इत्यपि संभवति ।
  3. आर्या-पूज्या, मम श्वश्रूरित्यर्थ:- गो. अनार्या इत्यपि पाठः-ति.