पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
320
[अरण्यकाण्ड:
राबणप्रलोभनम्

द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ।

 मे श्वशुरं सुकृतेन वररूपेण-मम भर्तुः प्रत्राजनं, भरतस्याभिषेचनं इति द्वौ वरौ अयाचत ॥ ७ ॥

नाद्य भोक्ष्ये न च स्वप्स्ये न च पास्ये [१]कथंचन ॥ ८ ॥
एप मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ॥ ९ ॥
अयाचतार्थैः [२] अन्वर्यैः न च याच्यां चकार सा |

 अन्वर्यैः- अनुगतार्थैः अर्थैः- प्रयोजनकरैः, वाक्यैरिति शेषः, अयाचत । एवं याच्यमानःऽपि सा याच्ञां न चकार-नाङ्गीकृतवतीत्यर्थः ॥

[३] मम भर्ता महातेजाः वयसा [४] पञ्चविंशतिवर्षकः ।। १० ।।


  1. कदाचन-ज.
  2. अन्वर्यैः-अर्थानुगतैः, सप्रयोजनैरिति यावत्, उपभोगक्षमैरित्यर्थः, अर्थः-सुवर्णरखादिमिः कैकेयीमयाचत, वरद्वयप्रतिनिधित्वेनैतानर्थान् प्रतिगृहाणेति प्रार्थयामासे-
    त्यर्थ:- गो.अन्वर्यैः-' अर्थी येनार्थकृत्येन संब्रजस्यविचारयन् । तमर्थमर्थ शास्त्रज्ञाः
    प्राहु: ' (अर. 43-34) इत्युक्तार्थानुगतैः इत्यर्थः ।
  3. नन्विदमयुक्तं, 'ऊनषोडश-वर्षोऽयं ' इति विश्वामित्रं प्रति दशरथोक्तेः; उषित्वा द्वादश समाः' इत्यत्रोफेश्चेति चेत् --- न--- अपान्तरत्वात् । अतितरुणावस्थायामपि राज्यं त्यक्तवानित्यर्थे तात्पर्येणास्थया तथोक्तेः । या अतिक्रान्तपञ्चविंशक इत्यर्थ:-ति. विशक:- पञ्चविंशेन युक्ताः का:- त्रयः यस्य सः, अष्टाविंशतिवार्षिक इत्यर्थः । अत एव 'ऊनषोडशवर्षो मे रामो राजीवलोचन: इति विश्वामित्रं प्रति दशरथोक्तथा 'उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने' इति रावणं प्रति सीतोक्तथा च सिद्धस्य वनप्रवेशसमये अष्टाविंशतिवार्षिकत्वस्य नापलापः | निरूपितं चैतद्विस्तरशः 'ऊनषोडशवर्षो मे' इत्यत्र व्याख्याने रा रामस्य जन्मारभ्य द्वादशे वर्षे विश्वामित्रागमनम्। तदनन्तरं वैदेया सह नगरे द्वादशवर्षाणि वासं कृतवान् | ततः परं त्रयोदशे यौवर राज्याभिषेकारंभः । ततश्च वनप्रवेशसमये रामः पञ्चविंशतिवर्षाहः । ततो मुनीनामाश्रमेषु दश वत्सराः । पांत्रयः । वनवासस्य चतुर्दशे वर्षे सीतापहरणम्- गो.
  4. पञ्चविंशक:-ग.