अटादश हि वर्षाणि मम जन्मनि गण्यते ।
मम जन्मनीति | जन्मारभ्येति यावत् । अत्र काचित् काकदन्त- परीक्षा रामविषयिण्यस्ति । सा तु उपेक्ष्यते । यद्वा लिखामः-
द्वादशे तु मुनेः सङ्गः सीतया चानया सह ।
पुरे च वत्सरं वासः पञ्चविंशे वनागमः ॥
मुन्याश्रमेष्वथ दश पञ्चवट्यां ततस्त्रयः ।
अथोनचत्वारिंशे स्यात् सीतापहरणं त्विति ॥
ततश्च पञ्चविंशतिवर्ष इत्यस्य वनानिर्गमकाले इति शेषः ॥ १० ॥
रामेति प्रथितो लोके [१]गुणवान् सत्यवान् शुचिः ।। ११ ।।
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ।
[२][३] कामार्तस्तु [४]महातेजाः पिता दशरथः स्वयम् ॥ १२ ॥
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुः समीपं राममागतम् ॥ १३ ॥
कैकेयी मम भर्तारं इत्युवाच [५]धृतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु, राघव ! ॥ १४ ॥
भरताय प्रदातव्यं इदं राज्यमकण्टकम् ।
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ।। १५ ।।
वने प्रब्रज, काकुत्स्थ ! पितरं मोचयानृतात् ।
पितरं अनृतान्मोचयेति । तत्प्रवर्तितवरानुपालनेनेति शेषः ॥