सत्यसन्धं [१]महाभागं अहं राममनुव्रता ।
न्यग्रोधपरिमण्डलं -न्यग्रोधवत बहुशाखबन्धुस्तीमं, तदूत सर्वाश्रयणीयं च 11
"महाबाहुं महोरस्कं [२] सिंहविक्रान्तगामिनम् ॥ ३४ ॥
नृसिंहं सिंहसंकाशं अहं राममनुव्रता ।
सिंहस्य विक्रान्तः– पदविक्षेपः तथा । पदविक्षेपवत् गमन- शीलमित्यर्थः ॥ २४ ॥
पूर्णचन्द्राननं रामं [३]राजवत्सं जितेन्द्रियम् ॥ ३५ ॥
पृथुकीर्ति महात्मानं अहं राममनुव्रता ।
राजवस्सं–दशरथपुत्रम् । राजः चासौ वरसश्रेष्ठः तरु मजतीति मन्दभाक् ॥ ३७ ॥
त्वं पुनः जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।। ३६ ॥
नाहं शक्या त्वया स्प्रष्टुं आदित्यस्य प्रभा यथा ।
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक ॥ ३७ ॥
राघवस्य प्रियां भार्या यस्त्वमिच्छसि [४]रावण !
काञ्चनपादपदर्शनं मुमूर्षुलक्षणम् । मन्द –क्षणं आयुरादिकं तरुणश्चेत्यपि ॥
क्षुधितस्य हि सिंहस्य मृगशत्रोः तरखिनः [५].॥ ३८ ॥