पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
326
[अरण्यकाण्ड:
रावणप्रलोभनम्

आशीविषस्य [१]बदनात् दंष्ट्रामादातुमिच्छसि ।
मन्दर पर्वतश्रेष्ठं [२]पाणिना हर्तुमिच्छसि ॥ ३९ ।
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ।
|| अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि चक्षुरम् ॥ ४० ॥
राघवस्य प्रियां भार्या योऽधिगन्तुं त्वमिच्छसि ।

 अक्षि इति पृथक् पदम् ॥ ४० ॥

[३] अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।। ४१ ।।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ।
यो रामस्य प्रियां भार्या प्रधर्षयितुमिच्छसि ॥ ४२ ॥
अनं प्रज्वलितं [४] दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि |
[५] कल्याणवृत्तां रामस्य यो भार्या हर्तुमिच्छसि || ४३ ॥
अयोमुखानां शूलानां [६][७] अग्रे चरितुमिच्छसि ।
रामस्य सदृशीं भार्या [८] त्वमिच्छसि ।। ४४ ।।

यदन्तरं सिंहसृगालयोने
यदन्तरं स्यन्दिनिकासमुद्रयोः ।
[९] सुराग्रथसौवीरकयोर्यदन्तरं
तदन्तरं [१०].वै तव राघवस्य च ॥ ४५ ॥


  1. तु मुखाव- ङ.
  2. पाणिभ्यां - ङ.
  3. अवलक्य—बध्वा-गो.
  4. दीप्तं, स्पृड्डा-ङ.
  5. कल्याणदृत्तां-- शुभाचाराम्- गो.
  6. अग्रे-तादृश्शूलाग्रेषु पादं निक्षिप्येत्यर्थः ।
  7. मध्ये-ज.
  8. योऽभिगन्तुं - ङ.योऽधिगन्तुं
  9. सुराग्रचं— श्रेमद्यं - गो.झरा अग्रथा- पूर्वमुत्पन्ना यस्मात्,अमृतमित्यर्थ:- रा.
  10. दाशरथेस्तवैव व-ज