पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७ सर्वे:]
327
तं वारयन्ती दुष्कृत्यात, अवेपत भृशं भयात्

 स्यन्दिनिका- क्षुदनदी स्यन्ददधर्मवान् कूपवाप्यादिश्च । सुराग्रघस्य- सोमराजस्य अमृतमयस्य सौवीरस्य-काञ्जिकस्य चेत्यर्थः ॥

यदन्तरं काञ्चनसीसलोहयोः
यदन्तरं चन्दनवारिपङ्कयोः
यदन्तरं हस्तिविडालयोर्वने
तदन्तरं दाशरथेस्तवैव च ।। ४६ ।।

 हमि बिडालयोः-गजमार्जस्योः ॥ ४६ ॥

यदन्तरं वायसवैनतेययोः
यदन्तरं महुम्यूयोरपि
यदन्तरं [१]सारसगृध्रयोर्वने ।
तदन्तरं दाशरथेः तवैव च ॥ ४७ ॥

 :-जलवायसः ॥ ४७ ॥

तस्मिन् सहस्राक्षसमप्रभावे
रामे स्थिते कार्मुकचाणपाणी
[२] हृताऽपि तेऽहं न जरां गमिष्ये
[३] वज्रं यथा मक्षिकयाsवगीर्णम् ।। ४८ ।


  1. इसक-ड.
  2. मक्षिकया अवगीर्ण-ग्रस्तं वज्र-हीररत्नं, मक्षिकया तण्डुलखण्डअत्या प्रस्तं
    हीररत्नमित्यर्थः यथा न जीर्ण भवति । यदा- मक्षिकया सहावगीर्ण-भुक्तं वसं-
    आज्यं, ‘वज्रो वा आज्यम्' इति स्मृतः थीभवती-गो. -त्वया हृताsपि अन
    जरां गमिष्ये- अदिरादेव मां रामः मोचयेदेवेति तात्पर्यम् । अथवा मदपहरणं
    जीणकर्तु स्वया सर्वथाशक्यमित्यर्थः भवदभिमतं सर्वथा न सिध्येदिति यावत् ।
  3. आज्यं-ज.