पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
328
[अरण्यकाण्ड:
सीताधिकारः

 जीर्णावस्थाम् । सुखोदर्कतामिति यावत् | वज्रं- आज्यम् । "वज्रो वा आज्यम् । मक्षिकया सह अवगीर्ण भुक्तमित्यर्थः ॥

इतीव तद्वाक्यमदुष्टभावा
[१]सुधृष्टमुक्ता रजनीचरं तम्
गात्रप्रकम्पव्यथिता बभूव
वातोद्धता सा कदलीव तन्वी ॥ ४९ ॥

 इतीव-इत्येव । तत्-उक्तरूपम् । वातोद्धता-आहिताग्न्यादिः, उद्धतवाता-महावातप्रकम्प्यमानेति यावत् ॥ ४९ ॥

तां वेपमानामुपलक्ष्य सीतां
स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म च स्वं
समाचचक्षे भूयोऽपि भयोत्पादनायेत्यर्थः ।भयकारणार्थम् ।। ५० ।।

इत्यार्षे श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे सप्तचरवारिंशः सर्गः

 भयकारण|-मयोत्पादनार्थमित्यर्थः । मौन (५०) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकायामरण्यकाण्डे सप्तचत्वारिंशः सर्गः

अष्टचत्वारिंशः सर्गः

[सीताधिक्कारः]

[२] एवं ब्रुवन्त्यां सीतायां संरब्धः परुपं वचः ।
ललाटे भ्रुकुटी कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥


  1. सुदु:ख-ड. सुदुर-ज.
  2. एवं परुषं बचः ब्रुवन्स्यां संरब्धः -इत्यन्वयः ॥