पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८ सर्ग:]
329
रावण: तां वशयितु पुनराइ स्ववैभवम्

 अथ कुलादिक्रमाचचक्षे इति यत् पूर्वसर्गान्ते उक्तं तस्यैव प्रपञ्चः । एवं ब्रुवन्त्यामित्यादि ॥ १ ॥

साक्षात् वैश्रवणस्याहं [१] सापत्ले, वरवर्णिनि !
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥

 अहं वैश्रवणस्य साप्ल- ज्ञातित्वे साक्षात् भवामि इति शेषः । एतेन कुलप्राशस्त्यमुक्तम् । सपत्नीशब्दः इह सर्वत्र ज्ञातिवाची ||

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः ।
विद्रवन्ति [२]भयाहीताः मृत्योरिव सदा प्रजाः ॥ ३ ॥

येन वैश्रवणो [३].राजा 'द्वैमात्रः कारणान्तरे ।
 [४]द्वन्द्वनासादितः क्रोधात् रगे विक्रम्य निर्जितः ॥ ४ ॥

 द्वैमात्र इति । द्वितीया माता द्विमाता । तस्याः अपत्यं द्वैमात्रः । 'मातुरुत्संख्या संभद्र पूर्वायाः " इत्वं न भवाते । द्विशब्दस्येह संख्या प्राधान्याविवक्षणात् । कारणान्तर इति ।निमित्तान्तर इत्यर्थः । द्वन्द्वं-द्वन्द्वयुद्धम् ॥ ४ ॥

" यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् ।
कैलास पर्वतश्रेष्ठं अध्यास्ते नरवाहनः

 स्वमधिष्ठानम् --स्वां पुरी- अलकापुरीमिति यावत् । कैलास- मध्यास्त इति । 'अधिशीङि 'ति कर्मत्वं । प्रबलाश्रयहेतवे इति शेषः ।।



मार्तः-ज. १


वैमात्रः-ज.

  1. सापत्न्य:-ड..
  2. सदा भीताः-ज.
  3. आता-ज
  4. द्वंद्वमासादितः वैश्रवण: विक्रम्य निर्जित इत्यन्वयः ।