पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
330
[भरण्यकाण्ड:
सीताधिकार:

 [१] यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्
वीर्यादेवार्जितं, भद्रे ! येन यामि विहायसम् ॥ ६ ॥

 येन-पुष्पकेण ॥ ६ ॥

मम संजातरोपस्य मुखं मैथिल
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ७ ॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः ।
तीव्रांशुः [२]अमृतांशुश्च भयात् संपद्यते [३]रविः ॥ ८ ॥

 तीब्रांशुरपि भयात् – मद्भयात् अमृतांशुश्च संपद्यते ||

निष्कम्पपत्राः तरवः नद्यश्च स्तिमितोदकाः ।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ।। ९ ।।
 [४]मम पारे समुद्रस्य लङ्का नाम पुरी शुभा।
1 संपूर्णा राक्षसैघरैः यथेन्द्रस्यामरावती ॥ १० ॥

 पारे समुद्रस्यति । 'पारे मध्ये षष्ठया वा विभ.पाधिकागत् अव्ययीभावाभावः ।।१०।।

प्राकारेण परिक्षिप्ता पाण्डरेण विराजता
"हेमकक्ष्या पुरी रम्या वैये मयतोरणा ।। ११ ।।

 पाण्डरेणति । सुधालंपवशादिति शेषः । हेमकक्ष्या-हेममय्यः कक्ष्याः- अवच्छेदाः यस्याः सा तथा ॥ ११ ॥


  1. उत्तरकाण्डे 15 सर्गे इयं कथा द्रष्टव्या ।
  2. शिशिरांशुभ-ङ. ज.
  3. "दाव-ज.
  4. मम पुरीत्यन्वयः ।