पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९ सर्ग:]
337
स चैनां रथमारोप्य कोशन्तीमुत्पपात खम्

ततस्तां [१] परुषैर्वाक्यैः भर्त्सयन् स महास्वनः ।
[२] अङ्केनादाय वैदेहीं रथमारोपयत्तदा ।। २१ ।।

 अङ्केनादायेति । अङ्कशब्दः इह सर्वत्र कटिप्रदेशवाची । हस्तान्तरैरिति शेषः ॥ २१ ॥

सा गृहीता विचक्रोश रावणेन यशस्विनी ।
रामेति सीता दुःखार्ता दूरगतं [३]रामं दूरगतं बने ॥ २२ ॥
[४] तामकामां स कामार्तः पन्नगेन्द्रवधूमिव ।
[५]
[६] विवेष्टमानामादाय उत्पपाताथ रावणः ॥ २३ ॥

 अकामां-विरागिणीम् ॥ २३ ॥

ततः सा राक्षसेन्द्रेण हियमाणा विहायसा ।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथाऽऽतुरा ॥ २४ ॥

 विहायसा-आकाशमार्गेण । मत्ता-पैत्त्यवशात् उन्मत्तेवेत्यर्थः ॥

हां लक्ष्मण ! महाबाहो ! गुरुचित्तप्रसादक !
दियमाणां न जानीषे रक्षसा [७] माममर्षिणा ॥ २५ ॥
जीवितं सुखमथच धर्महेतोः परित्यजन् [८]
हियमाणां अधर्मेण मां, राघव ! न पश्यसि || २६ ।।


  1. रावणादात्मानं मोचयितुं यतन्तीं परुषोक्तिमिः भर्त्सयन् ।
  2. अङ्केन इस्तान्तरैरित्यर्थ:-ति. अङ्केन-ऊरुभागेन-गो.
  3. रामं रामेति विक्रोश –उच्चराकन्दनेनाहूतवती ।
  4. रामकामां-ङ.
  5. विवेष्टमानां- रथोपरिस्थले लुठन्ती-गो. विचेष्टमानां तत आत्मानं मोचयितुं-ति
  6. विचेष्टमानां-ज.
  7. कामरूपिणा-ज.
  8. राघवविशेषणमिदम् ।