पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९ सर्गः]
389.
करुणं विलपन्ती सा पथि दृष्ड्डा जटायुषम्


[१]आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान् ।
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३१ ॥

 हरतीति शंसध्वमिति योजना ॥ ३१ ॥

[२] [माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् ।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥
हंसकारण्डवाकीर्णां वन्दे गोदावरी नदीम् ।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ||]

 माल्यवन्तमित्यादिश्लोकद्वयं प्रक्षिपन्ति केचित् । प्राचीनपाठेऽस्ति ||

दैवतानि च यान्यस्मिन् चने विविधपादपे |
नमस्करोम्यहं तेभ्यः भर्तुः शंसत मां हृताम् ॥ ३२ ॥
यानि कानिचिदप्यत्र सवानि [३] निवसन्त्युत ।
सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥ ३३ ॥
हियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ।
विवशाऽपहृता सीता रावणेनेति शंसत |॥ ३४ ॥
विदित्वा मां महाबाहुः [४] अमुत्रापि महाबलः ।
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।। ३५ ।।

 अमुत्र-परलोके । वैवस्वतहृतां वाऽपि मां शनैर्विदित्वा पराक्रम्य-पराक्रमं कृत्वा आनेष्यत्येव, अतो यूयं शंसतेति शेषः ।।


  1. आम त्रये - प्रार्थये - रा. संबोधयामि-गो.
  2. इदं श्लोकद्वयं महेश्वरतीर्थ-गोविन्दराजादिसम्मतम् ।
  3. विविधानि च ज.
  4. अमुत्र- स्वर्गलांके गतामति, वैवस्वतहृतामपि मां-गो.