एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५० सर्ग:]
341
क्षिप्रं एतां दर्शा शंस रामायेत्याह वं प्रति
पञ्चाशः सर्गः
[जटायुरभियोगः]
अथ सीतानिवेदितापहारेण जटायुना न्यायोक्तिपूर्व रावण- निरोधः । तं शब्दमित्यादि । अपहारावेदनशब्दमित्यर्थः । अवगाय सुप्तः - अवसुप्तः ॥ १ ॥
दशग्रीवेति संबुद्धिः । सत्यसंश्रवः - सत्यप्रतिज्ञः । सीतासंरक्षणे अहं सहायः इत्युक्तत्वात् इत्याशयः । अहं उच्यमाननामादिकः ॥ ३ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
लोकानां च हिते युक्तः रामो दशरथात्मजः ॥ ४ ॥
किं ततः ! इत्यत आह -- राजेत्यादि ॥ ४ ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।
सीता नाम वरारोहा यां त्वं हर्तुमिच्छसि ।। ५ ।।