पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५० सर्ग:]
343
सतु तं रावणं नीत्या चिकारेण च तर्जयन्

 अयं धर्मः पापेषु न विष्ठतत्यिाह- कामेति । यः पुमान् कामस्वभावो भवति, सोऽसौ तं तं स्वभावं प्रमार्जितुं न शक्यः । कुतः इत्यत आह -न हीत्यादि । हि-यस्मात् दुष्टात्मनां आलये- चिते आर्थ- पूज्यं-पुण्यं चिरं-चिरायापि नावसति । तस्मादेव " धर्मेण पापमपनुदति" इति श्रुतेः घर्म एव कामादि- पापस्य निवृत्तिसाधन, पापिषु तदभावात् पापस्वभावः अशक्य- मार्जनः केनापीति भावः ॥ ९ ॥

[१] अर्थ वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ।। १० ।।
व्यवस्यन्ति [२]न राजानः धर्म, पौलस्त्यनन्दन ! |

 शास्त्रेष्वनागतमिति । अप्रतिपादितमित्यर्थः । न व्यवस्यन्तीति । नेच्छन्तीत्यर्थः ॥ १० ॥

राजा [३]धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ॥ ११ ॥
धर्मः शुभं वा पापं [४] वा राजमूलं प्रवर्तते ।

 राजेत्यादि । द्रव्याणां - उत्तमवस्तूनां निधिः राजैव । कामश्चेति । प्रजानामिति शेषः । कुतः इत्यतः -- - धर्मः शुभं वेत्यादि । शुभं - शुभाचारः यतो राजमूलं प्रवर्तते ततः इति योजना ॥ ११ ॥

विषये वा पुरे वा ते यदा रामो महाबलः ॥ १२ ॥
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ।

 यदा राम इति । यस्मादित्यर्थः ॥ १२ ॥

यदि शूर्पणखाहेतोः जनस्थानगतः खरः ॥ १३ ॥
अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा ।


  1. धर्ममर्थ च कामं च ङ.
  2. अनुराजानं-ज.
  3. धर्मादिशब्दाः धर्मादिप्रवर्तकपरा:- गो.
  4. कमोबा-ह