पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
346
[अरण्यकाण:
जटायुरभियोगः

असकृत् संयुगे येन निहताः [१] दैत्यदानवाः || २३ ॥
न चिराचीरवासास्त्वां रामो युधि वधिष्यति ।

 संयुगे, रामेणेति शेषः ॥ २३ ॥

[२] किं नु शक्यं मया कर्तुं ? गतौ दूरं नृपात्मजौ ॥ २४ ॥
क्षिप्रं त्वं नश्यसे, नीच ! [३] तयो भतो न संशयः ।

 नश्यसे इति न संशयः इत्यन्वयः ॥ २४ ॥

न हि मे जीवमानस्य नयिष्यसि शुभाभिमाम् ।। २५ ।।
सीतां कमलपत्राक्ष रामस्य महिषीं प्रियाम् ।

 जीवमानस्य-जीवतः इति यावत् । नयिष्यसि-नेष्यसीति यावत् ॥

अवश्यं तु मया कार्य प्रियं तस्य महात्मनः ॥ २६ ॥
जीवितेनापि रामस्य तथा दशरथस्य च ।
तिष्ठतिष्ठ, दशग्रीव ! मुहूर्त पश्य, रावण ! ॥ २७ ॥
युद्धातिथ्यं प्रदास्यामि [४] यथाप्राणं, निशाचर ! |
वृन्तादिव फलं [५] त्वां तु पातयेयं रथोत्तमात् ।। २८ ।।

इत्या श्रीमद्रामायणे शरमीकीये अरण्यकाण्डे पक्षाश: सर्ग:

यथाप्राणं- यथाबलम् । (चारु)जर (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृत कतकटी कार्या अरण्यकाण्डे पश्चाशः सर्गः


  1. देव--ड,
  2. एवमुक्तेऽपि पलायमानं प्रत्याइ- किं न्विति । किं नु शक्यं - किं वा शक्यम् | नश्यसे- अदर्शनं प्राप्नोषि । तयोः -- ताभ्याम्-गो.
  3. रामलक्ष्मणयोः भयात् किल ध्वं परोक्षे सीतां हरसीत्यर्थः ।
  4. यावत्प्राणं-रु.
  5. पकं-