पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१ सर्ग:]
347
बभूवैवं मइयुद्धं गृधराक्षसयोर्वने

एकपञ्चाशः सर्गः

[जटायुश्शातनम्]

[१] इत्युक्तः क्रोधताम्राक्षः तप्तकाञ्चन [२] कुण्डलः
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्र ममर्षणः ॥ १ ॥

 अथ रावण जटायुर्युद्धम् । इत्युक्त इत्यादि ॥ १ ॥

ससंप्रहारस्तुमुलः तयोस्तस्मिन् महामृधे-ज.महावने ।
बभूव [३] वातोद्धुतयोः मेघयोगगने यथा ॥ २ ॥

 वातोद्भुतयोः बातेन उद्धृतयोः - प्रवर्तितयोः ॥ २ ॥

तत् बभूवाद्भुतं युद्धं गृध्रराक्षसयोर्यथा ।
सपक्षयोः [४] माल्यवतोः महापर्वतयोरिव || ३ ||

 सपक्षयोः-पक्षसहितयोः । माल्यवतो:- माल्यवदा ख्ययोः, "हिमवान् निषधो विन्ध्यो माल्यवान् " इति कुलाचलः । स एवासौ महागिरिः । दण्डकारण्येऽप्येको माल्यवान् गिरिरस्तीति प्रसिद्धिमात्रम् । वस्तुतस्तु अभूतोपमा || ३ ॥

ततो [५]नालीकनाराचैः तीक्ष्णाग्रैव विकर्णिभिः ।
अभ्यवर्षत् महाघोरैः गृध्रराजं [६]महाबलः ।। ४ ।।

 नालीकनाराचाः शतशो व्याकृताः ॥ ४ ॥


  1. संरचनयनः कोपात्-ङ. एतच्छलोकात् पूर्व - " इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्यामिनिभाः सर्वाः रेजुर्विंशतिदृष्टयः ॥ ” – इत्यधिकम्-ड..
  2. भूषण:-ड..
  3. बातोद्धावोः-ङ.
  4. मास्यवान्नामानौ द्वौ पर्वतौ । एको दण्डकारण्ये पूर्व (49 सर्गेऽधिकपाठे)
    उक्तः । अन्यः किष्किन्धासमीपे (किष्किन्धाकाण्डे 28-1) वक्ष्यति-गो.
  5. नालीकैः नालमात्रशरैः । नाराचैः – आयसशरैः । बिकर्णिमिः-–अङ्कुशाग्रशरै –गो.
  6. महाबलम्-ज.