पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१ सर्ग:]
361:
अधमेवधर्म तस्यैतत् निनिन्द च शुभोक्तिभिः

[१] अनुबन्धमजानन्तः कर्मणाम विचक्षणाः ।
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ।। २५ ।।

 अनुबन्धं - अनु बध्यते इत्यनुबन्धः-कर्मफलम् ॥ २५ ॥

बद्धस्त्वं कालपाशेन व गतः तस्य मोक्ष्यसे ।
वधाय बडिशं गृह्य सामिषं जलजो यथा ॥ २६ ॥

 व गतस्तस्य मोक्ष्यसे इति व्यत्ययात् षष्ठी । क गत्वा वं कालपाशं मोक्ष्यसे । न कापि ते तन्मोक्षः इत्यर्थः । 'बडिशं मत्स्य- वेधनम् । जलजः- मत्स्यः यथा नश्यति, तथा नशिष्यसीति शेषः ॥

न हि जातु दुराधप काकुत्स्थौ तव, रावण !
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २७ ॥

 अस्याश्रमस्य तव वर्षणं-अभिभवं न क्षमिप्येते ॥ २७ ॥

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ।
तस्कराचरितो मार्गः नैष वीरनिषेवितः ।। २८ ।।

 यथा त्वया कृतं कर्म, एष तस्कराचरितो मार्गः न वीर- निषेवितः, पापस्पर्श इवेत्यर्थः ॥ २८ ॥

युध्यख यदि शूरोऽसि मुहूर्तं तिष्ठ, रावण !
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ २९ ॥
[२] परेतकाले पुरुषः यत्कर्म प्रतिपद्यते ।
विनाशायात्मनोऽधर्म्य प्रतिपन्नोऽसि कर्म तत् ॥ ३० ॥


  1. अनुबन्धः - परिणामः ।
  2. मृत्यौ सहित एवं तादृशी प्रवृत्ति: स्यादिस्याशय: