पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
352
[अरण्यकाण्ड:
जटायुश्शातनम्

[१] पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् ।
कुर्वीत लोकाधिपतिः स्वयंभू [२] भगवानपि ॥ ३१ ॥

 पापानुबन्ध इत्यादि । यस्य कर्मणः कर्तुः पापानुबन्धः- पापफळसंबन्धः आवश्यकः शास्त्रदृष्टः को नु प्राणी तत् कर्म कुर्वीत ? माऽस्तु प्राणिभिस्तत् कर्मकरणं, तत् फलवारणासामर्थ्यात्, ईश्वरास्तु कुर्वन्त्येव इत्यत्राह–लोकाधिपतिरिति । इन्द्रोऽपि महेश्वगेऽपि पापफलकं कर्म न कुर्यादेव। स्वयंभूर्भगवान् पापपुण्यतदधिकारि तत्फलस्रष्टा भगवानपि कर्तुमकर्तुं अन्यथाकर्तुं शक्तोऽपि न पापकर्म कुर्यात् ईश्वरोऽपि मर्यादापरिपालनाय । तस्मादैश्वर्यमत्तेन त्वया क्रियमाणं दुष्कर्म दुर्बारमोगस्वफलं अचिरादेव भविष्यति इति तात्पर्यम् ॥ ३१ ॥

एवमुक्ता शुभं वाक्यं जटायुस्तस्य रक्षसः |
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ ३२ ॥

 पृष्ठे - पश्चाद्धागे । “ पृष्ठं तु चरमं तनोः ” ॥ ३२ ॥

तं गृहीत्वा नखैस्तीक्ष्णैः [३] विरराद समन्ततः ।
[४] अधिरूढो गजारोहः यथा स्यात् दुष्टवारणम् ॥ ३३ ॥
[५] विरराद [६] नखैरस्य तुण्डं पृष्ठे समर्पयन् ।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३४ ॥


  1. यस्य कर्मणः पापानुबन्ध:- पापोत्तरत्वं स्पष्टं, तादृशं कर्म लोकाधिपतिरपि
    सन् को नु कुर्वीत - बुद्धिपूर्वक पापाचरणे शक्तध्यापि न प्रवृत्तिर्भवेत इत्यर्थः ।
  2. अगवानिव-ङ.
  3. विददार-ज.
  4. दुष्टवारणमधिरूढो गजारोह: यथा स्यात्-तमलक्षीकृत्य पलायमानं गजं अङ्क शादिना
    यथा निरन्ध्याव, तथा निरुद्धवान् रावणमिति भावः ।
  5. विददार-ज.
  6. अस्य-रावणस्य पृषे नखः सह सुण्डं समर्पयन्- व्यापारयन् सन् विददार केशांश्चोत्पाटयामास-गो.