पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
364
[ अरण्यकाण्ड:
जटायुधशातनम्

 व्यायच्छमानस्य - व्यायाम - पराक्रमं कुर्वाणस्य | “आडो यमहनः " इति शानच् ॥ ४१ ॥

स छित्रपक्षः सहसा रक्षसा [१] रौद्रकर्मणा ।
निपपात [२] हतो गृधः धरण्यामल्पजीवितः ॥ ४२ ॥

 अल्पजीवितः - द्वित्रिघटिकाऽवस्थानोचितप्राणः इत्यर्थः || ४२ ||

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्र जटायुषम् ।
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता || ४३ ||
तं नीलजीमूतनिकाशकल्पं
सपाण्डुरोरस्कमुदारवर्यम् ।
ददर्श लङ्काधिपतिः पृथिव्यां
जटायुषं [३] शान्तमिवाग्निदावम् ॥ ४४ ॥

 अभिदावमिति । विशेषणस्य पूर्वनिपातः आर्षः । दावाभिमिति यावत् ॥ ४४ ॥

ततस्तु तं पत्ररथं महीतले
निपातितं रावणवेगमर्दितम् ।
[४] पुन: परिष्वज्य शशिप्रभानना
रुरोद सीता जनकात्मजा तदा ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकपञ्चाशः सर्गः

अशैव (४५ १/२) मानः सर्गः ॥ ४५१/२ ॥

इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे एका ब्राशः सर्गः


  1. घोरकर्मणा-ड.
  2. महागृजः-ज.
  3. अनेन, रावणः जटायुषं मृतमेव मेने इति गम्यते ।
  4. पुन: --शृशमिति वा। रावणेन सक्त रुद्धाऽपीति वा ।