पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२ सर्ग:]
356
सीता करोद दुःस्वार्ता दृष्ट्वा गृधं निपातितम्


द्विपश्चाशः सर्ग:

[सीवानूपुरादिभ्रंशः]

[१] सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् ।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ १ ॥

 अथ पातितगृध्रेण रावणेन अप्रत्यूहतः सीताहरणम् । त्वित्यादि । रावणेन विनिहतमित्यन्वयः ।। १ ।।

[२] [३] आलिङ्ग्य गृधं निहतं रावणेन बलीयसा ।
विललाप सुदुःखार्ता सीता शशिनिभानना ||
निमित्तं [४] लक्षणं स्वमं शकुनिस्वरदर्शनम् ।
अवश्यं सुखदुःखेषु नराणां [५] प्रतिदृश्यते ॥ ३ ॥

  • पूर्वसर्गान्तिम श्लोकस्यैव विस्तरः अत्र षट् श्लोकाः ।

पुनरनुवदति- आलियेति गो.

 निमित्तमित्यादि । नराणां सुखदुःखेषु भाविषु तत्सूचकंनिमित्तम् – वामदक्षिणाक्षिदोः स्पन्दादिरू लक्षणं-चिह्नम् । ** अथाप्यादर्श वोदके वा जिक्षशिरसं वा अशिरसं वा आत्मानं पश्येत् जिह्मो न वा दृश्येयातां तदाप्येवमेव विद्यात्" इत्यायुपनिषदुपदिश्यमान- प्रत्यक्षदर्शनानि, " अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति " इत्यादितः उपदिश्यमानं स्वप्रज्ञानम्, शकुनीनां वामदक्षिणगमन विशेषदर्शनम्, काकगोमायुगौल्यादिस्वराणां शब्दानां च दर्शनं अनुभवः तथा - एतत्सर्वं यथायोगं प्रतिदृश्यते सर्वेण ॥ ३ ॥


  1. एतत्पूर्व-"तमल्पजीवितं गृधं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राधवाश्रमात् अत्यधिकम् - ङ. जं. ॥
  2. विशेषान्तरं वक्तुं
  3. अयं श्लोकः कुण्डलितः-ज.
  4. कक्षणज्ञान-ड..
  5. संप्रदृश्यते-हृ.