पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२ सर्ग:]
357
कोशम्तीं राम रामेति वीतां जमाह राबणः

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथंवत् । ि
अभ्यधावत वैदेहीं [१] रावणो राक्षसाधिपः ॥ ७ ॥
[२] लतामिव वेष्टन्तीं आलिङ्गन्तीं महाद्रुमान् ।
मुश्च मुश्चेति बहुशः [३] प्रवदन् राक्षमाधिपः ॥ ८
क्रोशन्तीं राम रामेति रामेण रहितां वने ।
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ९ ॥
प्रधर्षितायां सीतायां बभूव सचराचरम् ।
जगत्सर्वममर्यादं तमसाइन्धेन संवृतम् ।। १० ।।
न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः ।

 अमर्यादं-भिन्नस्वस्वप्रकृतिकमित्यर्थः । अन्धेन तमसा-बाह्येन आभ्यन्तरेण चेत्यर्थः ॥ १० ॥

[४] दृष्ट्वा सीतां परामृष्टां [५]दीनां दिव्येन चक्षुषा ॥ ११ ॥
[६] कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ।

 श्रीमान् – निस्तुलाधिक भूमविद्यैश्वर्यवान् भगवान् पितामहः- श्रीमदादिगुरुः ब्रह्मा ब्रह्मलोकस्थः दिव्येन चक्षुषा सीतां -


  1. क्षणं विश्रान्तः रावण:- गो. अभ्यभावत विश्रान्तः इति पाठः एतत्सम्मतः
    स्याद्वा ।
  2. वेष्टम्ती लतामिव वृक्षानालिङ्गम्तीं-ति. महाद्रुमान् आलिङ्गन्तीं, अत एव
    शतामिव वेष्टन्तीं-रा. लतामिव भूतले वेष्टन्तीं-गो.
  3. प्राप सो-ज.
  4. यद्यपि 49 सर्ग एव 'जग्राह रावण: सीत' (16) इत्यत्रेव अस्य श्लोकस्यास्त्यबसरः, तथाइप मध्ये जटायुषा प्रतिरोधसंभावनया, इदानीमेव सीतापहारस्य निश्चयादत्र प्रवृत्तोऽयं श्लोकः ॥
  5. देवो-ज.
  6. कार्य- बालकाण्डे विष्णुना प्रतिज्ञातं कृतमति व्याजहार - प्रीत्यति ध्येन
    पुरुषान्तरांस विधानेऽप्युदाहरव-गो. यदर्थ अवतीर्णः देवानां सत् कार्य कृतं -
    सिद्धमित्यब्रवीत् - ति.