पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
364
अरण्यकाण्ड:
बीताबूपुरादिशः

[१] वित्रस्तकाः दीनमुखाः रुरुदुः मृगपोतकाः ।
उद्द्वीक्ष्योदय नयनैः [२]आस्रपाताविलेक्षणाः ॥ ४१ ॥

 वित्रस्तकाः, स्वार्थे कन् । मृगपोतका:- बालमृगाः ॥ ४१ ।।

सुप्रवेपितगात्राश्च बभूवुः वनदेवताः ।
विक्रोशन्तीं दृढं सीतां दृष्ट्वा [३] दुःखं तथा गताम् ।। ४२ ।।
[४] तां तु, लक्ष्मण ! रामेति क्रोशन्तीं [५] मधुरस्वरम् ।
[६] अवेक्षमाणां बहुशः वैदेहीं धरणीतलम् ॥ ४३ ॥
[७]स तामाकुलकेशान्त विप्रसृष्टविशेषकाम् ।
जहारात्मविनाशाय [८] दशग्रीवो मनस्विनीम् ॥ ४४ ।।

 विप्रसृष्टः --विळुलितः विशेषकः - तिलकः यस्याः सा तथा ||

ततस्तु [९] सा चारुदती शुचिस्मिता
विनाकृता बन्धुजनेन मैथिली ।
अपश्यती राघवलक्ष्मणाबु भौ
विवर्णवक्ता भयभारपीडिता [१०] ॥ ४५ ॥

इत्याषें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे द्विपश्चाशः सर्ग:

 चारुदती । ' वयसि दन्तस्य' इति दत्रादेशः । अशैव- (४५ १/२) मानः सर्गः ॥ ४५१ / २ ॥

इति श्रीमद्रामायणाकृत कृतकटीकायां अरण्यकाण्डे द्विपाशः सर्गः


  1. विवस्ताङ्का:-रू.
  2. मयादिव विलक्षणैः-ज.
  3. दुःखसमाहताम्-ड.
  4. सुप्रवेपितेति लोकय मेकान्वयं-गो. तामित्या अर्धचतुष्टयमेकान्वयि-रा. परन्तु ---
    अनन्तर लोकेऽपि त इति सत्वात् लोकत्रयमपि भिक्षं वाक्यं वा । द्वितीयश्लोके-
    स जहारेति कियापदं आकृष्टम्यम् ।
  5. मथुरस्वराम्- ज.
  6. धरणीतलं बहुशः अवेक्षमाणां, रामलक्ष्मण-प्रत्याशयेति भाव:- गो.
  7. सीता-छु.
  8. "दशमीबस्तपस्विनीम्-ड.
  9. सीता बदती इ.
  10. बभूवेति शेष:-गो. रा.