पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

384 वत्सरावधिकरणम् षट्पञ्चाशः सर्गः [वत्सरावधिकरणम् ] सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ।। १ । कृत्वेति । शेषः ॥ १ ॥ अरण्यकाण्ड: तथोक्तया सीतया पारुण्यप्रत्युत्तरो रावणः आनुकूल्यप्रतक्षिां द्वादशमासावधिकां प्रतिज्ञाय अथ अन्तःपुरात् अशोकवनिकायां स्थापयामास । ननु बलात् संस्पृष्ट्वा गृहीत्वा स्वान्तःपुरं नीतवतः बलादुपभोगे ईषत्करे किमिति कालप्रतीक्षा ! अन्ततोऽपि प्रातराशार्थ- मेव अचीवलगत् । न तु बलादुपभोगाय | उच्यते- स्त्रियो बलादुपभोगे मूर्चा ते विरतिष्यतीति दिव्याप्सरश्शापवशात् * तदशक्यं तेन । अतः आनुकूल्यप्रतीक्षा । पाण्डवत् मरणमप्यनादृत्य काममोहतो भोगाप्रवृत्तिः अन्तर्यामितद्भगवाज्ञया । एवं अक्षतत्वादेव सर्वदैवतैस्तथोक्तया च अन्ते पुनः प्रतिग्राहिता । तस्मात् अशङ्कयदोषा माता वैदेही । त्रिपदप्रथिमवतां योगिनां अयमर्थः अम्बया सुस्पष्टीकृतः । सा तथोक्तेत्यादि । निर्भयेति । बलादुपभोगे देहं योगतः त्यक्ष्यामीति परमदाढर्यबलात् इति शेषः । तृणमन्तरतः साक्षात् पापात्मकपरपुरुषसंभाषणदोषपरिहारायेति

  • नलकूबरमभिसरन्तीं रंभां घर्षितवते रावणाय तथा नलकूररेण शापो दत्त:-

इति उत्तरकाण्डे २६ सर्गे वर्ण्यते । वस्तुत: ---अध, श्वो वा, परश्वो वा सीता स्ववशे भविष्यत्येवेति प्रत्याशया तथा चिरभोगानुभवं प्रतीक्षतो रावणस्य, सकृद्रोगेन ‘प्रातराशार्थ वधिष्यन्ति' इत्यादिकमपि मरणसंपादने न प्रवृत्तिरभूदिति ज्ञायते । भीषणायैव । अथवा रत्युपकममात्रेणैव मरणं भवेत् शापवशात् । अतक्ष भोगोऽपि न सियेदिति भीतिः हेतु: स्यात् ||