पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुत्वैतत् रावणः कोषात् करोत् वत्सरावधिम् 1 प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः । भयसन्दर्शनं - भयप्रकाश कम् * ॥ २३ ॥ ५६ सगँ:] 389 शृणु, मैथिलि ! मद्वाक्यं मासान् द्वादश, भामिनि ! कालेनानेन नाभ्येषि यदि मां, चारुहासिनि ! ततस्त्वां प्रातराशार्थं सूदाइछेत्स्यन्ति लेशशः ॥ २५ ॥ द्वादश भामिनीति | प्रतीक्ष इति शेषः । नाभ्येषि यदीति । स्वारस्येनेति शेषः || २४-२५ ॥ 2 इत्युक्ता परुषं वाक्यं रावणः शत्रुरावणः । राक्षसीच ततः क्रुद्धः इदं वचनमब्रवीत् || २६ ।। शत्रून् रावयति -- कोशयतीति शत्रुरावणः ॥ २६ ॥ शीघ्रमेव हि राक्षस्यः 'विकृता घोरदर्शनाः । दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः ॥ २७ ॥ अस्या पनेष्यन्त्विति । अस्या अपनयन्त्विति यावत् ॥ २७ ॥ वचनादेव तास्तस्य 'सुघोरा 'राक्षसीगणाः । + कृतप्राञ्जलयो भृत्वा मैथिली पर्यवारयन् ॥ २८ ॥ स ताः प्रोवाच राजा तु रावणो घोरदर्शनः । + प्रचालय चरणोत्कर्षैः दारयन्निव मेदिनीम् ॥ २९ ॥

  • भयोलादकमिति यावत् + रावणाय कृतप्रालय इत्यर्थ: । प्रचाक्य-

द्वित्राणि पदानि चलिखा-ति. प्रचालय-- गत्वा, उत्थाय वा-गो. वस्तुतस्तु, कोषात भूमौ पादाइतिकरणं उग्राणां स्वभावः । तः दृशपादाहति कृत्वेति तात्पर्यम् । मेदिनीं दारयन्निव चरणोत्कर्षै:- पादप्रक्षेपै: मेदिनीं प्रचाल्य चालयित्वा ॥ एतत्स्थाने-रावणः परमक्रुद्धः इदं वचनमब्रवीत् - इति - ङ. विरूपा:- अ. 3 विकृताः-ङ, 'घोरदर्शना:-ज,