पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
10
[अरण्यकाण्ड:
विराधनिरोधः



 ध्वस्ता वृक्षा: लता गुल्मानि यस्मिन् तत्तथा; पर्वतोपम- विराघसंचारवशादिति शेषः । दुर्दर्शसलिलाशयामित्यपि उक्तहेतोरेव । निष्कूजा:-निश्शब्दाः नानाः शकुनयो यस्मिन् तत्तथा नादितं वनं अन्नगाहत इति पूर्वेण सम्बन्धः || ३ ||

 [१].सीतया सह काकुत्स्थः तस्मिन् घोरमृगायुते ।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ ४ ॥

 घोरमृगाः-तरक्ष्वादयः । पुरुषान् अतीति पुरुषादाः, पचाद्यच् ॥

गम्भीराक्षं [२]महावक्रं विकटं विषमोदरम् ।
बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ॥५॥

 गम्भीराक्ष-अगाधचक्षुष, विकटं - विशालं, विषमं - निम्नोन्नत- संस्थानं, बीभत्सं-कुत्सितं, विकृतं- उच्यमानधर्मवत्तो विपरीत- वेषम् । अत एव घोरदर्शनम् ॥ ५ ॥

वसानं चर्म वैयाघ्रं वसार्द्र रुधिरोक्षितम् ।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ।। ६

 वसा-मांसविशेषः । व्यादितं, छान्दस इट्, व्यात्ताम्यमिति यावत्॥ ६ ॥

त्रीन् सिंहांचतुरो व्याघ्रान् द्वौ वृकौ पृपतान् दश ।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥ ७ ॥
अवसज्यायसे शूले विनदन्तं महास्वनम् ||



  1. बनमध्ये तु- ङ. झ
  2. महासस्वं- ड़