पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सर्ग:] सीतां एकाकिनी त्यक्ता कुत एवं समागतः मनश्च मे दीनमिहाप्रहृष्टं चक्षुत्र सव्यं कुरुते विकारम् । असंशयं, लक्ष्मण ! नास्ति सीता PE हता मृता वा * पथि वर्तते वा ॥ २४ ॥ इत्याषें श्रीमद्रामायणे वास्मीकीये अरण्यवाण्डे सप्तपन्नाशः सर्गः 399 हना- निवृत्तहरणा। पथि वर्तते वा । ह्रियमाणा वेत्यर्थः । अवर ( २४ २-२) मानः सर्गः ।। २४२-२ ।। इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्तपश्चाशः सर्गः अटपञ्चाशः सर्गः [ लक्ष्मणदर्शनम् ] स दृष्ट्वा लक्ष्मणं "दीनं +" शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १ ॥ अथ सीतां संपृच्छ्यमानस्थ रामस्य स्वाश्रमगमनम् । स दृष्टे- त्यादि । शून्यं - सन्तोषादिशून्यचितम् । वैदेही विना आगत- मिति । विसृज्यागतमित्यर्थः ॥ १ ॥

  • पथि वर्तते वा - त्वां प्रेषयित्वाऽपि निर्वृतेरप्राप्त्या साइपि मां द्रष्टुं आश्रमं

विहाय प्रस्थिता वा । एतादृशे महावने तादृशसुकुमाय: आश्रमं विहाय विना रक्षकं बहिनिगमने हि अपाय: सिद्ध एव । अतश्च पथि वर्तते वा इत्यस्य निश्चितसन्निहिता- पहरणा, निश्चितसन्निहितमरणा वा इत्यर्थ: हृदयंगमः ॥ ↑शून्ये (पा.) बने वैदेहीं विनाssगतं- गो. + वैदेहीं विनाऽऽगतमित्यनेन, यदि नाम तवात्रागमनं अत्यन्तावश्यकं श्यात, तदा वैदेया अपि सहैवानयनमेव युक्तमिति रामस्याशयः स्यादिति प्रतिभाति । अनन्तरसर्गे ४ टोकोऽपि द्रष्टव्यः । 'दीन:-अ. 2 शून्ये - ङ.