पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

400 लक्ष्मणदर्शनम् प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण ! वैदेही यां हित्वा त्वमिहागतः ॥ राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः | क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ ३ ॥ यां विना नोत्सहे, वीर! मुहूर्तमपि जीवितुम् । क्क सा प्राणसहाया मे सीता सुरसुतोपमा ॥ ४ ॥ पतित्वममराणां वा पृथिव्याश्चापि, लक्ष्मण ! तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ ५ ॥ अमराणां पतित्वमिति । इन्द्रत्वमिति यावत् ॥ ५॥ 1 कच्चिज्जीवति वैदेही प्राणै: प्रियतरा मम ।

2

  • कच्चित् प्रव्राजनं, " सौम्य ! न मे मिथ्या भविष्यति ॥

मे प्रव्राजनं - - चतुर्दशसमा: वनप्रव्राजनप्रतिज्ञा तु सीता- जविनेन मज्जीवनात् न मिथ्या भविष्यति कच्चित् ।। ६ ।। अरण्यकाण्ड: सीतानिमित्तं, सौमित्रे ! मृते मयि गिते त्वयि । कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥ ७ ॥ अथ विपरीतशङ्का, मनसो निरर्गलत्वात् — सीतानिमित्तमित्यादि । सीताविनाशनिमित्तमित्यर्थः । त्वाय गते इति । अयोध्यामिति शेषः ॥ BOPGES

  • चतुर्दशवर्षसमाप्तावेव सीतावियोगजं जीववियोगं किं प्राप्स्यामीत्यर्थ:- गो.

सीतानिमित्तं मयि त्वयि च मृते - राक्षसमृतस्वे गते – प्रापिते सति-रा. वस्तुतस्तु गतिशब्दस्यैव मरणार्थकत्वं प्रसिद्धमेव । मयि मृते, तेन च त्वय्यपि गते- मृते इत्येवार्थः । लक्ष्मणस्य रामपक्षपातस्य कैकेय्या विदितनया, लक्ष्मणेऽपि मृते-- इत्येवार्थ: युक्तः ॥ तपनीया-ङ.. 2 वीर-ज.