पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

402 10 लक्ष्मणदर्शनम् 'शङ्के वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितः त्वं च ' द्रष्टुं मां शीघ्रमागतः ॥ १४ ॥ 2 sje सहशो ममेति । स्वरेणेति शेषः । यस्मात् आगतः तस्मात् सः खरस्तु वैदेह्या श्रुतः इति शङ्के हत्यन्वयः ॥ १४ ॥ सर्वथा तु कृतं कष्टं सीतामुत्सृजता बने । प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ।। १५ ।। प्रतिकर्तुं-मत्कृतापकारस्य प्रत्यपकारं कर्तुं । अन्तरमपे- क्षिणामिति शेषः । अन्तरं अवकाशः दत्तम् ॥ १५ ॥ [अरण्यकाण्ड: Jeetanjaly 3 दुःखिताः खरघातेन राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैः भविष्यति न संशयः ॥ १६ ॥ 'अहोऽस्मिन् व्यसने मनः सर्वथा, शत्रुसूदन ! किं न्विदानीं करिष्यामि ? शङ्के प्राप्तव्यमीदृशम् ॥ १७ ॥ अन्ततो धैर्यावलम्बनं–शङ्के प्राप्तव्यमीदृशमिति । वशतः ईदृशदुःखमनुभवितव्यमेवेत्येव मन्ये इति भावः ॥ १७ ॥ प्रारब्ध - इति सीतां वरारोहां चिन्तयन्त्रेव राघवः आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ १८ ॥

  • स्वरः श्रुतः, वस्तया त्वं प्रेषितश्च - इति यथाश्रुतान्वयी वा जनस्थान---

तद्वतिखाश्रमम्-ति. मन्ये-ज. 2 त्रातुं - ङ. अहोऽस्मि-ज. 03 HAIL