पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

406 लक्ष्मणगईणम् सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ॥ ८ ॥

  • प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।

प्रत्युक्ता मैथिली वाक्यं इदं । तत्प्रत्ययान्वितम् ॥ ९ ॥ [अरण्यकाण्डः तत्प्रत्ययान्वितं- तस्या अपि प्रत्ययेन विश्वसनीयत्वेनान्वितं तत्त्वेन योग्यमिदं वक्ष्यमाणं वाक्यं मैथिली प्रत्युक्ता - प्रतिवचन- त्वेनोक्ता ॥ ९ ॥ - न तत् पश्याम्यहं रक्षः यदस्य भय भावहेत् । निर्वृता भव #नास्यैतत केनाप्येवमुदाहृतम् ॥ १० ॥ किं तदित्यतः - :-न तदित्यादि । एतत् - दुर्वचनम् | स्वात्मनः अन्यत्राणार्थकत्वात् ॥ १० ॥ BORL विगर्हितं च नीचं च कथमार्योऽभिधास्यति । $ त्राहीति वचनं, सीते! यः त्रायेत् त्रिदशानपि ॥ ११ ॥ || किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । 'राक्षसेनेरितं वाक्यं ' त्राहि त्राहीति, शोभने ! ॥ १२ ॥

  • गच्छेति बहुश: प्रचोद्यमानेनेत्यन्वयः । त्वत्प्रत्ययान्वितं त्वयि प्रत्यय: -

दुराषर्षत्वदैन्यराहित्यविषयो विश्वासः, तेनान्वितम्- गो. + 'नास्त्येतत्' इति पाठे, एतत् – कातरवचनं रामस्य नास्ति, अन्येन केनापि एवं उदाहृतं, इत्यर्थ: । § य: त्रिदशानपि त्रायेत् स कथं 'सीते त्राहि' इति वचनमभिधास्यति- गो. 2 || किंनिमित्तं – किमपि प्रयोजनमुद्दिश्य केनापि राक्षसेन, मे भ्रातुः स्वरमालम्ब्य-गो. 2 मानयेत्-ड.. 3 नास्त्येतत्-ड...

  • इदमधे "विस्वरं

त्वत्प्रत्यया-ङ. इत्याद्यनन्तरं पठनीयं-ज. 5 त्रासात्-ज.