पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ सर्ग:]
11
तत्राभ्यधावद्रामादीन् विराधो नामराक्षस:


 पृषताः - विन्दुमृगाः | महास्वन यथा तथा विनदन्तं- क्ष्वेलनं कुर्वाणम् ॥ ७ ॥

स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।
[१] अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः ॥ ८ ॥

 काले- युगान्तकाले क्रुद्धः अन्तकः प्रजाः अभि-उद्दिश्य यथा अघावत, तद्वत् अभ्यधावत् ॥ ८ ॥

स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।
अङ्केनादाय वैदेहीं अपक्रम्य ततोऽब्रवीत् ॥ ९ ॥

 अङ्कनेति-कटिप्रदेशनेति यावत् ॥ ९ ॥

युवां जटाचीरधरौ सभायौं क्षीणजीवितौं ।
[२]प्रविष्टौ दण्डकारण्यं शरचापासि[३] धारिणौ ।। १० ।।

 सभार्याविति । भार्याशब्दस्तु योषिन्मात्रवाची । कयाचन सहितौ । [४] ।अन्यस्तु छत्रिन्यायेन एकस्य सहायत्वेन उभयस्यापि सभार्यत्वमिति जल्पति । अथापि ध्वनिदोषो दुर्वारः आयाति ॥ १० ॥

कथं तापसयोर्वा च वासः प्रमदया सह ।
अधर्मचारिणौ पाप को युवां मुनिदूषणौ ॥ ११ ॥
अहं वनमिदं दुर्ग विराधो नाम राक्षसः ।
चरामि सायुधो नित्यं ऋषिमांसानि भक्षयन् ॥ १२ ॥



  1. अभ्यधावत संक्रुद्धः-ड.
  2. क्षीणजी. वेती प्रविष्ट -- क्षीण जीवितत्वादेव प्रविष्टौ-गो.
  3. पाणिनी-ङ,
  4. महेश्वरतीर्थ: । 'इयोरेका भार्या' इति बुद्धिदोषात् तथोक्तमिति गोविन्दराजीयनिर्वाहः स्वरसः