पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०. प्रियां च तत्रापश्यन् सः विललापागदः स्निग्धपल्लव संकाशा पीतकौशेय वासिनी । शंसस्व यदि वा दृष्टा बिल्व ! बिल्वोपमस्तनी ॥ १३ ॥ अथवाऽर्जुन ! शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता 'भीरुः यदि जीवति वा न वा ? ॥१४॥ अर्जुनः -करवीरः। ‘ करवीरः करालश्च करवीरी तथाऽर्जुनः इति ओषधिनिघण्टुः ॥ १४ ॥

  • ककुभः 'ककुभोरुं तां व्यक्तं जानाति मैथिलीम् ।

6 'यथा पल्लवपुष्पाढ्यः भाति द्वेष वनस्पतिः ।। १५ ।। ककुमः मरुचकः । ककुमस्य बहिस्त्वचाऽपि लक्ष्णत्वात् ककुभोरुः लक्ष्णोरुः | एवं पाङ्कः । यथा – अपरोक्षतया अनुभूय- मानः इत्यर्थः । एवमग्रेऽपि । अपुष्पः सफलः -वनस्पतिः । व्यक्तं जानातीत्यनुकर्षः ॥ १५ ॥ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् । एष व्यक्तं विजानाति तिलकः तिलकप्रियाम् ॥ १६ ॥ उपगीत: उप-समीपे क्रियमाणझोङ्कार इत्यर्थः ॥ १६ ॥ अशोक ! शोकापनुद ! शोकोपहत'चेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ १७ ॥ त्वन्नामानं कुरु – अशोकं मां कुर्वित्यर्थः ॥ १७ ॥ 413

  • केचित् करभोरुमिति वदन्ति, तत् प्रकृतशैलीविरुद्धम्-गो.

संकाशां-ज. 12 वासिनीम् - ज. यदि सा-ज. S करभोरुं-ङ. 7 चेतनम् - ज. 9

  • तन्वी अ