पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सर्ग:] सीतां ब्रूहीति पप्रच्छ चेतनाचेतनान् वने गज ! सा * गजनासोरूः यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यं आख्याहि, वरवारण ! ॥ २४ ॥ शार्दूल ! यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ २५ ॥ शार्दूले बलगत्यादिकिञ्चिद्धर्मसंबन्धः । न ते भयमिति । तथा कथनेऽपि प्रीतात् मत्तः तव न भयमित्यर्थः ॥ २५ ॥ 415 किं धावसि, प्रिये ! दूरं दृष्टाऽसि, कमलेक्षणे ! वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ? ॥ २६ ॥ तिष्ठ तिष्ठ वरारोहे ! न तेऽस्ति करुणा मयि ।

  1. नात्यर्थं हास्यशीलाऽसि किमर्थं मामुपेक्षसे ? ॥ २७ ॥

अत्यर्थ हासशीला - परिहासशीला ॥ २७ ॥ पीतकौशयकेनासि सूचिता, वरवर्णिनि ! धावन्त्यपि मया दृष्टा तिष्ठ, यद्यस्ति सौहृदम् ॥ २८ ।। कौशेयकेन सूचितासीति । मोहात् तत्प्रतिमासः ॥ २८ ॥ $ नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति ।। २९ ।।

गजनासः गजकरः । मोहपारवश्यात् सीताया दर्शने अकाण्ड एव 'नात्यर्थ हास्यशीलासि' इति तस्याः स्वभावानुवादः। S अथवा साऽत्र नैव विद्यते, किन्तु हिंसिता। अत्र हेतुमाह – कृच्छ्रमिति- गो. एतादृगवस्थमपि मांसा यतो नोपयाति, अतः सा अत्र नास्ति किंतु हिंसिता इति किचिन्निवृत्तमोहस्य उक्ति: । कतकदृष्टया-नैव सा नूनम् । अथवा सती अपि मदवस्थया न पीडिता, एतादृशं मां जातमिति भावः ॥ दृष्ट्वाऽपि तस्या मनः न सानुकम्पं 1 हिंसिता-ङ, ज. 2 वर्णिनी-ङ.