पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

426 राम विलाप: निवृत्तवनवासच जनकं मिथिलाधिपम् ॥ १३ ॥ कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥ १४ ॥ 2 " सुतास्नेहेन संतप्तः मोहस्य वशमेष्यति । तया [अरण्यकाण्डः Comm - सीतया विरहित-वियुक्तम् ॥ १४ ॥ तात एव कृतार्थः स तत्रैव वसतागतः ।। १५ ।। 46 तात एव कृतार्थः सः तत्रैव बसताद्गतः " इति प्राचीनं पाकमेकमधे दृश्यते । इदं पौराणिका: दुर्योजतः त्यजन्ति, न Fin लिखन्ति, कुण्डलयन्ति वा । तातो दशरथ एवं कृतार्थः सीता- विरहितं आगतं मां दृष्ट्वा यतः स्वर्गगतः तत्त्वतो दुःखं न प्राप्स्यतीति यत् तस्मात् स तातः तत्रैव स्वर्ग एव वसतात् । अषष्टे लोट् । अथ लड लोटं व्यत्ययादङ्गीकृत्य तु योजनं - तातः तत्रैव स्वर्ग एव वसनीति यत् अतः स एव कृतार्थः, न तु जीवन्ती कौसल्येत्यर्थः । अथवा न गमिष्यामि पुरीं भरतपालिताम् । स्वर्गोऽपि सीतया हीनः शून्य एव मतो मम ॥ १६ ॥ उक्तदोषपरिहाराय पक्षान्तरमादत्ते - अथवेत्यादि ॥ १६ ॥ 'मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् । न त्वहं तां विना सीतां जीवेयं हि कथंचन ।। १७ ।।

तात एव कृतार्थ: स तत्रैव वसतागतः ' इत्यर्वमधिकं फतकपाठे | तातो दशरथ एव कृतार्थः वसताव, लोट् ब्यत्ययेन । यतः स तत्रैव--स्वर्ग एव वसति, न तु जीवन्ती कौसक्येस्यर्थ:-ति. 3 त्वया-ङ. 12 सुताविनाग-ज. इदमधं कुण्डलितं-ङ. "ता-ङ.