पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२ सर्ग:]
13
तेन चापहृत सीतां दृड्डा रामोऽन्वतप्यत



कैकेय्यास्तु सुसंवृद्धं क्षिप्रमद्यैव, लक्ष्मण !
या न तुष्यति राज्येन पुत्रार्थे [१] दीर्घदर्शिनी ॥ १९ ॥
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।
अद्येदानीं सकामासा या माता मम [२] मध्यमा ।। २० ।।
परस्पर्शातु वैदेह्या न [३].दुःखतरमस्ति मे ।
[४]पितुर्वियोगात्, सौमित्रे ! स्वराज्यहरणात् तथा ॥ २१ ॥

 यदित्यादि । अस्मासु विषये कैकेय्याः यद्द स्वं वने सम्पादनीयतया अभिप्रेतं, अत एव यत् वरवृतं च तत् क्षिप्रं - द्राक्- अधैब, संवृद्धं-सिद्धं, या तु पुत्र /र्थे - पुत्र प्रयोजननिमित्तं, राज्येन- राज्याभिषेकवरणमात्रेण न तुष्यति । सर्वभूतानां हितोऽप्यहं यया दीर्घदर्शिन्या वनमपि पुत्रराज्यस्थैर्याय प्रस्थापितः, या प्रसिद्धा मम मध्यमा माता सपुत्रा दशरथपत्नी, पत्नीनां मध्यवर्तित्वात् मध्यमा कैकेयी, सुमित्रायाश्च कनीयसी कैकेयी अद्य दिवसे अस्मिन् काले सकामा जाता ॥ २१ ॥

इति ब्रुवति काकुत्स्थे वाष्पशोक[५]. परिष्ठते ।
अब्रवील्लक्ष्मणः क्रुद्धः [६]रुद्धो नाग इव वसन् ॥ २२ ॥

 बाष्पशोकाभ्यां नेत्रचित्तगताभ्यां परिष्लतः-पीडितः । काकुत्स्थ इति । कैकेयीं प्रति विराधं प्रत्यपीति शेषः । रुद्धो नाग इवेति- आहितुण्डिकेन मन्त्ररुद्धः पेटीरुद्धोऽपि वा सर्प इवेत्यर्थः । (निः)श्वस- भिति- रामविषाददर्शनात् ॥ २२ ॥



  1. सीतावियोगे नाहं जीवेयम्, तेन च भरतस्य राज्यं स्थिरं भवेत् । एवं मह्यं
    बनवास नियोगे सीताऽपि अनुगच्छेत्, वने च सीताविनाश: सुलभ: इत्याद्यालोचनाव-
    तीत्यर्थ: ।
  2. मध्यमा–'स्यान्मध्यमा दृष्टरजाः' - प्रकृतेऽनिवृत्तरजा इत्यर्थ: । तेन
    कॉसरुपासु मैत्रयोः वृद्धावं, कॅकेय्याः तरुणीत्वं, तत्प्रयुक्तपति वाल्लभ्यादिकं सूच्यते ।
  3. दुःखान्तर- ङ
  4. पितुर्विनाशात् - ङ.
  5. परिप्लुतः- ङ
  6. क्रुद्धो-ड.