पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

434 राम रौद्रावेशः चतुष्पष्टितमः सर्गः [रामरौद्रावेशः]

  • स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।

शीघ्रं, लक्ष्मण ! जानीहि गत्वा गोदावरी नदीम् ॥ २ ॥ अपि गोदावरीं सीता पद्मान्यानयितुं गता ? [अरण्यकाण्ड: अथ अन्वेषयन् लिङ्गदर्शनैः हृतां विज्ञाय अथ देवा आपदि तां न दत्तवन्तः इति देवेभ्योऽघिचुक्रोध | स दीन इत्यादि ॥ २ ॥ 2 एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ॥ २ ॥ नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणः तीर्थवतीं विचित्वा राममब्रवीत् ॥ ३ ॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । तीर्थवतीं—अवतारवतीं, पुण्योदकवर्ती च ।

  • एवं शोककरणं-चारद्वारा अवणेन रावणस्य

स्ववध्यत्वसंपादनायेति बोध्यम्-ति. + लघुविक्रमः + उच्चस्वरेण आह्वानेऽपि नोत्तरं लब्बमिति भावः । एतदर्घस्थाने मनुष्यत्व बुद्धिदाढर्यपूर्वकं त्वरितपदविन्याम: - - गो. स दीनो दीनया वाचा संशुष्कवदनो भृशम् । अभिराममिदं राम: विललापाकुलेन्द्रिय: । त्रिलोकाधिपतिं देवं शक्रं त्वां वेदयाम्यहम् । पुरन्दर विहाराईप्रिया भार्या जहाति माम् । यस्मिन् काले स्त्रियं कामी लब्ध्वा भूयोऽभिनन्दति । तस्मिन् सुखोदये काले प्रिया भार्या जहाति माम् । निर्वीर्य इव मातङ्गः परिवृत्त इवोत्सवः । प्रतिभात्ययमावास: गतध्वज इवाहवः । रतिं नैव च विन्दामि तां विना पद्मलोचनाम् | नाशयत्येव सर्वस्वं अनुशोचामि भामिनीम् । इति शोकसमाविष्ट: लक्ष्मणं वाक्यमब्रवीत् ङ. 2 पुनरेव हि-ज.