पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

440 रामरौद्रावेश: तां * हेमवर्णां हेमाभां सीतां दर्शय, पर्वत ! यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ ३१ ॥ कुद्धोऽब्रनीदिति । तदधिष्ठानदेवतोद्देशेन एवं वाद: ।। ३१ ।। अरण्यकाण्ड: एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । + शंसन्निव ततः सीतां नादर्शयत राघवे ।। ३२ ॥ शंसन्निवेति । स्वदेशवर्तिवक्ष्यमाणलिङ्गद्वारेति शेषः । अर्वाक्त्वात् स्थूलाकारस्य । नादर्शयत, साक्षादित्यर्थः । राघवे तद्विषये ॥ ३२ ॥ ततो दाशरथी रामः उवाच च शिलोच्चयम् । मम' बाणाग्निनिर्दग्धः भस्मीभृतो भविष्यसि ॥ ३३ ॥

  1. असेव्यः 'सततं चैव निस्तृणद्रुमपल्लवः ।

इमां वा सरितं चाद्य शोषयिष्यामि, लक्ष्मण ! ॥ ३४ ॥ यदि नाख्याति मे सीतां" आयां चंद्रनिभाननाम् । एवं स रुषितो रामः दिधक्षन्निव चक्षुषा ॥ ३५ ॥ हेमवर्णां---हेमप्रतिमासदृशी, हेमाभां---स्वर्णतुल्यकान्ति-गो. हेमवर्णा- सुवर्णवर्णसदृशवणंविशिष्टां, अत एव-हेमाङ्गी–हेममयाङ्गीत्वेन प्रतीयमानां-रा. हेमा- भामित्यनेन लावण्यनिर्देशः । हरिद्रादी हेमवर्णसद्भावेऽपि लावण्याभावादुमयनिर्देश: । दर्शयन्-जानज्ञपि राघवे राधवसमीपे नादयर्शत्-रा. नादर्शयत-वागिन्द्रिय राहित्येन साक्षादिति शेष:-ति. शंसन्निव-प्रतिध्वनिना कथयन्निव-स्वपृष्टस्यैवानुवादेन अनादरोक्ति रामोऽमन्यतेति भावः-गो. † निस्तृणद्रुमपलवत्वात् केनापि सेवितुमनईः ॥ 3 बाणास्त्र - ङ. 1 सुमुखां-ङ, हेमाशी-ज. 2 दर्शयन्निवतां-ज. अब-ज. ' पर्वतश्चैव-ङ.