पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ सर्गः] पश्य राम कुलं वर्म श्रुतं नीति विधेः क्रमम् षट्षष्टितमः सर्गः [ लक्ष्मणहितवचनम्] तं तथा शोकसंतप्तं विलपन्तमनाथवत् । मोहेन महताऽऽविष्टं *परिधून मचेतसम् ॥ १ ॥ ततः सौमित्रिर|श्वास्य मुहूर्तादिव लक्ष्मणः । रामं ी संबोधयामास चरणौ चाभिपीडयन् ॥ २ ॥ एवं लक्ष्मणः रजोऽभिभवप्रवृत्तं कोषमुपशमय्य सहजतत्त्व- प्रकृत्यापत्तये बोधनं करोति । तं तथेत्यादि । परिद्यूनं– क्षीणम् । अचेतसं - अखस्थचित्तम् || मुहूर्तादिव - मुहूर्तादेव ॥ १-२ ॥ महता तपसा, राम ! महता चापि कर्मणा । राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ॥ ३ ॥ संबोधनप्रकार: - महतेत्यादि । कर्मणा- -ऋष्यशृङ्गानय- नादिपूर्वोक्त महायागैरित्यर्थः ॥ ३ ॥ + तव चैव गुणैर्बद्धः त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नः भरतस्य यथा श्रुतम् ॥ ४ ॥ 455 भरतस्य यथा श्रुतमिति । अनुभवमनतिक्रम्य श्रुतं तथा ॥ ४ ॥

  • परिधूनं– परिदेवनं

+वकारेण इतरपुत्रव्यावृत्तिः । भरतात्- गो. रा. 'मचेतनम् - ङ. मुखादिति शेषः । यथा- स-गो. प्राप्तम्- गो. + संवोधयामास - शापयामास- तवैव गुणैर्बद्धः --स्वद्गुणैकपरवशः-गो. § भरतस्य-