पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीताहरणवृत्तान्तं पप्रच्छ करुणाकुल: यं दृष्ट्वेति । यमपराषं दृष्ट्वेत्यर्थः ।। ५ ।।

'कथं तत् चन्द्रसङ्काशं मुखमासीन्मनोहरम् १ सीतया कानि चोक्तानि ? तस्मिन् काले, द्विजोत्तम ! ॥ कथंवीर्यः ? कथंरूपः १ किंकर्मा स च राक्षसः ? क्क चास्य भवनं ? तात ! ब्रूहि मे परिपृच्छतः ॥ ७ ॥ 1 तमुद्रीक्ष्याथ 'दीनात्मा विलपन्त मनन्तरम् । वाचाऽतिसन्नया रामं जटायुरिदमब्रवीत् || ८ || हता सा राक्षसेन्द्रेण रावणेन 'विहायसा । मायामास्थाय विपुलां + वातदुर्दिनसकुलाम् ॥ ९ ॥ परिश्रान्तस्य मे, तात ! पक्षौ छित्वा स राक्षसः | सीतामादाय वैदेही प्रयातो 'दक्षिणां दिशम् ।। १० ।। किं कर्मेत्यस्य उत्तरं- मायामास्थायेति । वातेन दुर्दिनेन च सकुला तथा ।। १० ।। ६८ सर्गः] 467 6 उपरुध्यन्ति मे प्राणाः दृष्टिभ्रमति, राघव !! पश्यामि वृक्षान् सौवर्णान् उशीरकृतसूर्धजान् ॥ ११ ॥ क्व चास्य भवनमिति प्रश्नस्य उत्तरदानात् पूर्व प्राणोपरोधमाह - उपरुध्यन्तीति । मरणवेदनया उपरुद्धा भवन्तीत्यर्थः । उशीरेण लामश्चक्रेन कृताः–सम्पादिताः मूर्धजाः-केशाः येषां ते तथा ॥ ११ ॥

  • मनोहरं मुखं कथमासीत् कीदृशं विकारमापन्नम्। अन्यै: अपरिज्ञानार्थ

एवं माया कृता । धर्मात्मा-ज. 2 मनाथवत्-ज. 3 दुरात्मना-ज. "कान्तस्य-ज. ● एतदनन्तरं-- ' सर्वकेशविमुक्तं मां बाहुभ्यां संपरिष्वज - 5 दक्षिणामुखः-ज. इति कचिदधिकं झ. 30*