पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राघवः तं तु संस्कृत्य ददौ तस्योत्तमां गतिम् 6( अपरावर्तिनामिति । रणे इति शेषः । यज्ञशीलादिभिः क्रमात् प्राप्यान् सावर्तसर्वपुण्यलोकान् प्राप्य, अथ मया ब्रह्मात्मकेन समनुज्ञातः सन् अनुमतमल्लोकगतिकः सन् अनुत्तमान् येभ्यः पर उत्तमा न सन्ति तान् सर्वोत्तमान् अथ यदतः परो दिवो ज्योतिः दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु " इत्यादि । श्रुतिप्रसिद्धान् ब्रह्मलोकान् गच्छ । एवं ब्रह्मलोकप्रदानकाले सहज- भूमसत्त्वस्य रजस्तमोऽभिभवनेनोन्मेषः । एवं कार्यवशात् कदाचित् सहजस्वब्रह्मत्वस्य प्रत्यभिज्ञानं अन्यदा हनुमत इव स्ववैभवाच्छादनं कार्याय मनुष्यभावादनपायाः । अतः शिशोरपि राम ब्रह्मावतारत्वं सुस्पष्टम् । अत्र य इह रामो विष्णुः शङ्कर इति महान्तं यत्नं कुर्वन्ति †न तेनास्माकं विशेषः । स्थूलमूर्ती विष्णुप्राधान्यस्य सर्वतोऽस्माभिः स्थाप्यमानत्वात् । स्थूलमात्रदर्शिनस्त तावता समाप्ताः । वयमंत्र किं कुर्मः तेषामभ्यधिकज्ञानाभावे ? ॥ ३० ॥ ६८ सर्ग:] 473 एवमुक्ता चितां दीप्तां आरोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा * स्वबन्धुमिव दुःखितः ॥ ३१ ॥ रामोऽथ सहसौमित्रिः वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोन् अनु तस्तार तं द्विजम् ॥ ३२ ॥ अथ स्थूलान् महारोहीन्- महामृगान् । इकारान्तोऽप्यस्ति मृगवाची रोहिशब्दः । तदेव व्यज्यते – रोहिमांसानि चेति प्रयोगेण च। योजना तु स्थूलान् महारोहीन् हत्वा-पिण्डप्रदानार्थमा दायागत्य अनु – अनन्तरं तद्विजं पक्षिणमुद्दिश्य पिण्डदानाय शाद्वलतृणं (कुशान्) तस्तार ॥ ३२ ॥

  • कृष्णपादादयः • तनिश्लोक्यादौ तथा वर्णयन्ति । + स्वबन्धुमिवेत्यनेन

मन्त्रपूर्वकत्वं दाहस्योच्यते-गो..