पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

484 कबन्धग्रहणम् ETS B | अरण्यकाण्डः मा स्म त्रासं कृथाः, वीर ! न हि त्वादृग्विषीदति । एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥ ४२ ॥ पप्रच्छ घननिर्घोषः कबन्धो *दानवोत्तमः । एतस्मिन्नन्तर इति । लक्ष्मणविषादरामाश्वासनसमय इत्यर्थः ॥ कौ युवां वृषभस्कन्धी महाखद्गधनुर्धरौ ॥ ४३ ॥re घोरं देशमिमं प्राप्तौ 'दैवेन मम चाक्षुषौ । देवेन-दैवगत्या, मम चाक्षुषौ चक्षुर्गोचरौ ।। ४३ ॥ वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ ४४ ॥ इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः । अथ राक्षसः कार्यादिकं पृष्ट्वा तदुपेक्ष्य, केवलं स्वप्रयोजनमेव संपन्नमेत्याह— इमं देशमित्यादि । अनुप्राप्तौ इह तिष्ठतः – क्षुधार्तस्य मम आस्यमप्यनुसंप्राप्तौ स्थः ।। ४४ ।। सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ॥ ४५ ॥ 1992 ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं ' पुनः । किं ततः ? इत्यतः -- दुर्लभमित्यादि ॥ ४५ ॥ तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ॥ ४६ ।।

  • दानवोत्तम इत्युक्तया दनुवंशोद्भवत्वेऽपि कर्मणा राक्षसत्वात् अन्यत्र

राक्षसस्वोक्तिर्न विरुध्यते- रा. माँ तूर्णमनु-ज. 1 मम मक्षावुपस्थितौ-ङ, " महात्मनः-ङ. हि वाम्-ज. er Denim